________________
२ विविक्त. |चर्याचूला
दशवैका०मार्जना, विवर्जनं विवर्जनाश्रवणकथनादिना परिवर्जनमित्यर्थः। विहारचर्या' विहरणस्थितिर्विहरणमर्यादा इयम्' हारि-वृत्तिः एवंभूता 'ऋषीणां साधूनां प्रशस्ता-व्याक्षेपाभावात् आज्ञापालनेन भावचरणसाधनात्पवित्रेति सूत्रार्थः ॥२ ॥५॥ इयं साधूनां विहारचर्येति सूत्रस्पर्शनमाह
दब्वे सरीरभविओ भावेण य संजओ इहं तस्स । उग्गहिआ पग्गहिआ विहारचरिआ मुणेअब्बा ॥ ३६८ ॥ साधूनां विहारचर्याऽधिकृतेति साधुरुच्यते, स च द्रव्यतो भावतश्च, तत्र 'द्रव्य इति द्वारपरामर्शः, 'शरीरभव्य' इति मध्यमभेदत्वादागमनोआगमज्ञशरीरभव्यशरीरतद्व्यतिरिक्तद्रव्यसाधूपलक्षणमेतत्, "भावेन चेति द्वारपरामर्शः, स एव 'संयत' इति संयतगुणसंवेदको भावसाधुः । 'इह' अध्ययने 'तस्य' भावसाधोः 'अवगृहीता' उद्यानारामादिनिवासाद्यनियता 'प्रगृहीता' तत्रापि विशिष्टाभिग्रहरूपा उत्कटुकासनादिविहारचर्या 'मन्तव्या' बोद्धव्येति गाथार्थः ॥ सा चेयमिति सूत्रस्पर्शेनाह
अणिएवं पइरिक अण्णायं सामुआणिअं उंछं । अप्पोवही अकलहो विहारचरिआ इसिपसत्था ॥ ३६९ ॥ व्याख्या सूत्रवदवसेया। अवयवाक्रमस्तु गाथाभङ्गभयाद्, अर्थतस्तु सूत्रोपन्यासवद्रष्टव्य इति ॥ 'विहारचर्या ऋषीणां प्रशस्ते'त्युक्तं तद्विशेषोपदर्शनायाह-'आकीर्णावमानविवर्जना च' विहारचर्या ऋषीणां प्रशस्तेति, तत्राकीर्ण-राजकुलसंखड्यादि अवमानं-खपक्षपरपक्षप्राभूत्यजं लोकाबहुमानादि, अस्य विवर्जना,
१°कथादिना वि० । परिव. प्र.
॥२८
॥
Jain Education inamed
For Private Personal Use Only
Mm.jainelibrary.org