________________
दशवैका ० हारि-वृत्तिः
॥ २७९ ॥
Jain Education In
न तु धर्मवैशसे, सुरेन्द्रता (सा)र्थेऽपि समाहितं मनः ॥ २॥ तथा-पापं समाचरति वीतघृणो जघन्यः, प्राप्यापदं सघृण एव विमध्यबुद्धिः । प्राणात्ययेऽपि न तु साधुजनः स्ववृत्तं, वेलां समुद्र इव लङ्घयितुं समर्थः ॥ ३ ॥” इत्यलं प्रसङ्गेनेति सूत्रार्थः ॥ २ ॥ अधिकृतमेव स्पष्टयन्नाह - 'अनुस्रोतः सुखो लोकः' उदकनिम्नाभिसर्पणवत् प्रवृत्त्याऽनुकूलविषयादिसुखो लोकः, कर्मगुरुत्वात्, 'प्रतिस्रोत एव' तस्माद्विपरीतः 'आश्रवः' इन्द्रियजयादिरूपः परमार्थपेशलः कायवाङ्मनोव्यापारः 'आश्रमो वा' व्रतग्रहणादिरूपः 'सुविहितानां' साधूनाम्, उभ यफलमाह - 'अनुस्रोतः संसारः शब्दादिविषयानुकूल्यं संसार एव, कारणे कार्योपचारात्, यथा विषं मृत्युः दधि पुषी प्रत्यक्षो ज्वरः, 'प्रतिस्रोतः' उक्तलक्षणः, तस्येति पञ्चम्यर्थे षष्ठी 'सुपां सुपो भवन्ती'ति वचनात्, 'तस्मात्' संसाराद् 'उत्तारः' उत्तरणमुत्तारः, हेतौ फलोपचारात् यथाऽऽयुर्धृतं तन्दुलान्वर्षति पर्जन्य इति सूत्रार्थः ॥ ३ ॥ यस्मादेतदेवमनन्तरोदितं तस्मात् 'आचारपराक्रमेणे'त्याचारे - ज्ञानादौ पराक्रमः -प्रवृ न्तिबलं यस्य स तथाविध इति, गमकत्वाद्बहुव्रीहिः तेनैवंभूतेन साधुना 'संवरसमाधिबहुलेने' ति संवरे-इन्द्रियादिविषये समाधिः - अनाकुलत्वं बहुलं - प्रभूतं यस्य स इति समासः पूर्ववत् तेनैवंविधेन सता अप्रतिपाताय विशुद्धये च, किमित्याह - 'चर्या' भिक्षुभावसाधनी बाह्या नियतवासादिरूपा गुणाश्च-मूलगुणोउत्तरगुणरूपाः नियमाश्च - उत्तरगुणानामेव पिण्डविशुद्ध्यादीनां खकालासेवननियोगाः 'भवन्ति साधूनां द्रष्टव्या' इत्येते चर्यादयः साधूनां द्रष्टव्या भवन्ति, सम्यग्ज्ञानासेवनप्ररूपणारूपेणेति सूत्रार्थः ॥ ४ ॥
For Private & Personal Use Only
2-%%%
२ विविक्तचर्याचूला
।। २७९ ।।
Jainelibrary.org