SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ द्ववादः-कयाचिदार्ययाऽसहिष्णुः कुरगडुकप्रायः संयतश्चातुर्मासिकादावुपवासं कारितः, स तदाराधनया मृत एव, ऋषिघातिकाऽहमित्युद्विग्ना सा तीर्थकरं पृच्छामीति गुणावर्जितदेवतया नीता श्रीसीमन्धरस्वामिसमीपं, पृष्टो भगवान्, अदुष्टचित्ताऽघातिकेत्यभिधाय भगवतेमां चूडां ग्राहितेति । इदमेव विशेष्यते-'यछुत्वे ति यच्छ्रुत्वाऽऽकर्ण्य 'सुपुण्यानां कुशलानुबन्धिपुण्ययुक्तानां प्राणिनां 'धर्म' अचिन्त्यचिन्तामणिकल्पे चारित्रधर्मे 'उत्पद्यते मतिः' संजायते भावतः श्रद्धा । अनेन चारित्रं चारित्रबीजं चोपजायत इत्येतदुक्तं भवतीति सूत्रार्थः ॥१॥ एतद्धि प्रतिज्ञासूत्रम्, इह चाध्ययने चांगुणा अभिधेयाः, तत्प्रवृत्तौ मूलपादभूतमिदमाह-'अनुस्रोतःप्रस्थिते' नदीपूरप्रवाहपतितकाष्टवद् विषयकुमार्गद्रव्यक्रियानुकूल्येन प्रवृत्ते 'बहुजने' तथाविधाभ्यासात् प्रभूतलोके तथाप्रस्थानेनोदधिगामिनि, किमित्याह-'प्रतिस्रोतोलब्धलक्ष्येण' द्रव्यतस्तस्यामेव नद्यां कथञ्चिद्देवतानियोगात्प्रतीपस्रोतःप्राप्तलक्ष्येण, भावतस्तु विषयादिवैपरीत्यात्कथंचिदवाप्तसंयमलक्ष्येण 'प्रतिस्रोत एवं' दुरपाकरणीयमप्यपाकृत्य विषयादि संयमलक्ष्याभिमुखमेव 'आत्मा' जीवो 'दातव्यः' प्रवर्तयितव्यो 'भवितुकामेन' संसारसमुद्रपरिहारेण मुक्ततया भवितुकामेन साधुना, न क्षुद्रजनाचरितान्युदाहरणीकृत्यासन्मार्गप्रवणं चेतोऽपि कर्त्तव्यम्, अपित्वागमैकप्रवणेनैव भवितव्यमिति, उक्तं च-"निमितमासाद्य यदेव किञ्चन, खधर्ममार्ग विसृजन्ति बालिशाः । तपाश्रुतज्ञानधनास्तु साधवो, न यान्ति कृच्छ्रे परमेऽपि विक्रियाम् ॥१॥ तथा-कपालमादाय विपन्नवाससा, वरं द्विषद्वेश्मसमृद्धिरीक्षिता । विहाय लज्जा नदीपरप्रवाहपतितकाचाध्ययने चर्चागुण चारित्रवीज चोप Jain Education Inter For Private & Personel Use Only Jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy