SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ १ दुमपुपिका. तपोऽधिः दशवैका० जिनकल्पिकादीनामन्येषां वा तदभ्यासपराणामवगन्तव्या, न पुनरन्येषाम्, उपध्यभावे समग्रसंयमाभावाद हारि-वृत्तिः ६ अतिरिक्ताग्रहणतो वोनोदरतेति, उक्तं च-"जं वइ उवयारे उवगरणं तं सि होइ उवगरणं । अइरेगं अ- हिगरणं अजयं अजओ परिहरंतो ॥१॥” इत्यादि । भक्तपानोदरता पुनरात्मीयाहारादिमानपरित्यागवतो ॥२७॥ वेदितव्या, उक्तं च-"वैत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ। पुरिसस्स महिलिआए अट्ठावीसं हवे कवला ॥१॥ कैवलाण य परिमाणं कुकुडिअंडयपमाणमेत्तं तु । जो वा अविगिअवयणो वयणम्मि छहेज वीसत्यो ॥२॥” इत्यादि, एवं व्यवस्थिते सत्यूनोदरता अल्पाहारादिभेदतः पञ्चविधा भवति, उक्तं चअप्पाहार अवड्डा दुभाग पत्ता तहेव किंचूणा । अह दुवालस सोलस चउवीस तहेक्कतीसा य ॥१॥ अयमत्र भावार्थ:-अल्पाहारोनोदरता नामैककवलादारभ्य यावदष्टौ कवला इति, अत्र चैककवलमाना जघन्या, अष्टकवलमाना पुनरुत्कृष्टा, शेषभेदा मध्यमा च, एवं नवभ्य आरभ्य यावद् द्वादश कवलास्तावदपाङ्खनोदरता जघन्यादिभेदा भावनीया इति, एवं त्रयोदशभ्य आरभ्य यावत्षोडश तावद् द्विभागोनोदरता, एवं सप्तदशभ्य आरभ्य यावच्चतुर्विशतिस्तावत्प्राप्ता, इत्थं पञ्चविंशतेरारभ्य यावदेकत्रिंशत्तावत्किश्चिदूनोदरता, जघन्यादिभेदाः सुधियाऽवसेयाः, एवमनेनानुसारेण पानेऽपि वाच्या, एवं योषितोऽपि द्रष्टव्या इति, भावो १ यद्वर्तत उपकारे उपकरणं तदस्य भवत्युपकरणं । अतिरेकमधिकरणमयतमयतः परिभुञ्जन् ॥१॥२ द्वात्रिंशत्किल कवला आहारः कुक्षिपूरको भणितः । पुरुषस्य महिलायाः अष्टाविंशतिः स्युः कवलाः ॥ १॥ ३ कवलानां च परिमार्ण कुकुय्यण्डकप्रमाणमात्रमेव । यो वाऽविकृतवदनो वदनै क्षिपेत् विश्वस्तः ॥२॥ SASSARIS HALUS ॥ २७॥ SCCES in Education Intern a For Private & Personel Use Only www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy