________________
E44+4+4
+5+%%%%%%%%%%%%
दश समाः कृतपरिकर्मा सन्काल एव करोति, उक्तं च "चत्तारि विचित्ताई विगईनिहियाई चत्तारि । संवच्छरे अ दोणि उ एगंतरिअंच आयामं ॥ १ ॥णाइविगिट्ठो अ तवो छम्मासे परिमिअंच आयामं । अन्ने वि अ छम्मासे होइ विगिटुं तवोकम्मं ॥२॥ वासं कोडीसहियं आयामं काउ आणुपुवीए । गिरिकंदरं तु गंतुं पायवगमणं अह करेइ ॥ ३ ॥” इत्यादि । तथा इङ्गिते प्रदेशे मरणमिङ्गितमरणम्, इदं च संहननापेक्षमनन्तरोदितमशकुवतश्चतुर्विधाहारविनिवृत्तिरूपं खत एवोद्वर्तनादिक्रियायुक्तस्यावगन्तव्यमिति, उक्तं च-"इंगिअदेसंमि सयं चउविहाहारचायणिप्फण्णं । उव्वत्तणादिजुत्तं णाणेण उ इंगिणीमरणं ॥१॥" इत्यादि । भक्तपरिज्ञा पुनस्त्रिविधचतुर्विधाहारविनिवृत्तिरूपा, सा नियमात्सप्रतिकर्मशरीरस्यापि धृतिसंहननवतो यथासमाधि भावतोऽवगन्तव्येति, उक्तं च-"भत्तपरिणाणसणं तिविहाहाराइचायनिष्फण्णं । सपडिकम्मं नियमा जहासमाहिं विणिद्दिह॥१॥” इत्यादि उक्तमनशनम्, अधुना ऊनोदरता-ऊनोदरस्य भाव ऊनोदरता, सा पुनर्द्विविधा-द्रव्यतो भावतश्च, तत्र द्रव्यत उपकरणभक्तपानविषया, तत्रोपकरणे
१ चत्वारि विचित्राणि विकृतिनियूंढानि चत्वारि । संवत्सरौ च द्वौ तु एकान्तरितं चाचाम्लम् ॥१॥ (१) रहितानि वि. प्र. २ नातिविकृष्टं च तपः | षण्मासान् परिमितं चाचाम्लम् । अन्यानपि च षण्मासान् भवति विकृष्टं तपःकर्म ॥१॥ ३ वर्षे कोटीसहितमाचामाम्लं कृत्वाऽऽनुपूर्व्या । गिरिकन्दरां तु गत्वा पादपोपगमनमथ करोति ॥ ३ ॥ ४ इशितदेशे खयं चतुर्विधाहारत्यागनिष्पन्नं । उद्वर्तनादियुकं नान्येनैव इङ्गिनीमरणम् ॥ १॥ ५ भक्तपरिज्ञाऽनशनं त्रिविधाहारादित्यागनिष्पन्नम् । सप्रतिकर्म नियमात् यथासमाधि विनिर्दिष्टम् ॥१॥
Jain Education Inter
For Private & Personel Use Only
Mainelibrary.org