________________
दशवैका ० हारि-वृत्तिः
॥ २७६ ॥
Jain Education In
त्त्वानां 'महानरकसदृशो' रौरवादितुल्यस्तत्कारणत्वान्मानसदुःखातिरेकात् तथा विडम्बनाच्चेति सूत्रार्थः ॥ १० ॥ एतदुपसंहारेणैव निगमयन्नाह - 'अमरोपमम् उक्तन्यायादेवसदृशं 'ज्ञात्वा' विज्ञाय 'सौख्यमुत्तमं ' प्रशमसौख्यं, केषामित्याह - 'रतानां पर्याये' सक्तानां सम्यक्प्रत्युपेक्षणादिक्रियाव्यङ्गये श्रामण्ये, तथा अरतानां पर्याय एव, किमित्याह - 'नरकोपमं' नरकतुल्यं ज्ञात्वा दुःखम् 'उत्तम' प्रधानमुक्तन्यायात्, यस्मादेवं रतारतविपाकस्तस्माद् ' रमेत' सक्तिं कुर्यात्, केत्याह - ' पर्याये' उक्तखरूपे 'पण्डितः' शास्त्रार्थज्ञ इति सूत्रार्थः ॥ ११ ॥ पर्यायच्युतस्यैहिकं दोषमाह - 'धर्मात्' श्रमणधर्माद् 'भ्रष्ट' च्युतं 'श्रियोऽपेतं' तपोलक्ष्म्या अपगतं 'यज्ञाग्निम्' अग्निष्टोमायनलं विध्यातमिव यागावसानेऽल्पतेजसम्, अल्पशब्दोऽभावे, तेजः शून्यं भस्मकल्पमित्यर्थः ' हीलयन्ति' कदर्थयन्ति पतितस्त्वमिति पङ्कयपसारणादिना, 'एनम्' उन्निष्क्रान्तं 'दुर्विहितम् | उन्निष्क्रमणादेव दुष्टानुष्ठायिनं 'कुशीलाः' तत्सङ्गोचिता लोकाः, स एव विशेष्यते - 'दादुहिअं'ति प्राकृत शैल्या उद्धृतदंष्ट्रम् - उत्खातदंष्ट्रं 'घोरविषमिव' रौद्रविषमिव 'नाग' सर्प, यज्ञाग्निसपपमानं, लोकनीत्या प्र धानभावादप्रधानभावख्यापनार्थमिति सूत्रार्थः ॥ १२ ॥ एवमस्य भ्रष्टशीलस्यौघत ऐहिकं दोषमभिधायैहिकामुष्मिक माह - 'इहैव' इहलोक एव 'अधर्म' इत्ययमधर्मः, फलेन दर्शयति-यदुत 'अयशः' अपराक्रमकृतं न्यूनत्वं तथा 'अकीर्त्तिः' अदानपुण्यफलप्रवादरूपा तथा 'दुर्नामधेयं च' पुराणः पतित इति कुत्सितनाम - धेयं च भवति, केत्याह - 'पृथग्जने' सामान्यलोकेऽप्यास्तां विशिष्टलोके, कस्येत्याह- 'च्युतस्य धर्माद्' उ
For Private & Personal Use Only
१ र तिवाक्यचूला०
॥ २७६ ॥
jainelibrary.org