________________
दशवैका हारि-वृत्तिः
१रतिवाक्यचूला
॥२७५॥
इव 'गलं' बडिशं 'गिलित्वा' अभिगृह्य तथाविधकर्मलोहकण्टकविद्धः सन् स पश्चात्परितप्यत इत्येतदपि समानं पूर्वेणेति सूत्रार्थः ॥६॥ एतदेव स्पष्टयति-यदा च 'कुकुटुम्बस्य' कुत्सितकुटुम्बस्य कुतप्तिभिः-कुत्सितचिन्ताभिरात्मनः संतापकारिणीभिर्विहन्यते-विषयभोगान् प्रति विघातं नीयते तदा स मुक्तसंयमः सन् परितप्यते पश्चात्, क इव?-यथा हस्ती कुकुटुम्बबन्धनबद्धः परितप्यते ॥७॥ एतदेव स्पष्टयति-'पुत्रदारपरिकीर्णो' विषयसेवनात्पुत्रकलत्रादिभिः सर्वतो विक्षिप्तः 'मोहसंतानसंततो' दर्शनादिमोहनीयकर्मप्रवाहेण व्याप्तः, क इव-पङ्कावसन्नो नागो यथा' कर्दमावमग्नो वनगज इव स पश्चात्परितप्यते-हा हा किं मयेदमसमञ्जसमनुष्ठितमिति सूत्रार्थः ॥८॥
अज्ज आहं गणी हुँतो, भाविअप्पा बहुस्सुओ । जइऽहं रमतो परिआए, सामण्णे जिणदेसिए ॥ ९ ॥ देवलोगसमाणो अ, परिआओ महेसिणं । रयाणं अरयाणं च, महानरयसारिसो ॥ १० ॥ अमरोवमं जाणिअ सुक्खमुत्तमं, रयाण परिआइ तहाऽरयाणं । निरओवमं जाणिअ दुक्खमुत्तमं, रमिज तम्हा परिआइ पंडिए ॥ ११ ॥ धम्माउ भटुं सिरिओ अवेयं, जन्नग्गिविज्झाअमिवऽप्पते । हीलंति णं दुविहिअं
OSSAIRAAIGARO
॥ २७५॥
Jain Education
For Private Personal Use Only
Pujainelibrary.org