SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ Jain Education नार्य इवानार्थी म्लेच्छचेष्टितः किमर्थमित्याह - 'भोगकारणात्' शब्दादिभोगनिमित्तं 'स' धर्मत्यागी 'तत्र ' तेषु भोगेषु 'मूच्छितो' गृद्धो 'बालः' मन्दः 'आयतिम्' आगामिकालं 'नावबुद्ध्यते' न सम्यगवगच्छतीति सूत्रार्थः ॥ १ ॥ एतदेव दर्शयति-यदा 'अवधावितः' अपसृतो भवति संयम सुखविभूतेः, उत्प्रव्रजित इत्यर्थः, 'इन्द्रो वेति देवराज इव 'पतितः क्ष्मां' क्ष्मां गतः, खविभवभ्रंशेन भूमौ पतित इति भावः, क्ष्मा-भूमिः । 'सर्वधर्म परिभ्रष्टः' सर्वधर्मेभ्यः - क्षान्त्यादिभ्य आसेवितेभ्योऽपि यावत्प्रतिज्ञमननुपालनात् लौकिकेभ्योऽपि वा गौरवादिभ्यः परिभ्रष्टः सर्वतश्युतः, स पतितो भूत्वा 'पश्चात् ' मनाग् मोहावसाने 'परितप्यते' किमिदमकार्य मयाऽनुष्ठितमित्यनुतापं करोतीति सूत्रार्थः ॥ २ ॥ यदा च वन्द्यो भवति श्रमणपर्यायस्थो नरेन्द्रादीनां पञ्चाद्भवत्युन्निष्क्रान्तः सन्नवन्द्यः तदा देवतेव काचिदिन्द्रवर्जा स्थानच्युता सती स पश्चात्परितप्यत इत्येतत्पूर्ववदेवेति सूत्रार्थः ॥ ३ ॥ तथा यदा च पूज्यो भवति - वस्त्रभक्तादिभिः श्रामण्यसामर्थ्याल्लोकानां पञ्चाद्भवत्युत्प्रव्रजितः सन्नपूज्यो लोकानामेव तदा राजेव राज्यप्रभ्रष्टः महतो भोगाद्विप्रमुक्तः स पश्चात्परितप्यत इति पूर्ववदेवेति सूत्रार्थः ॥ ४ ॥ यदा च मान्यो भवत्यभ्युत्थानाज्ञाकरणादिना माननीयः शीलप्रभावेण पश्चाद्भवत्यमान्यस्तत्परित्यागेन तदा श्रेष्ठीव 'कर्बटे' महाक्षुद्रसंनिवेशे क्षिप्तः सन् पञ्चात्परितप्यत इत्येतत्समानं पूर्वेणेति सूत्रार्थः ॥ ५ ॥ यदा च स्थविरो भवति स व्यक्तसंयमो वयःपरिणामेन, एतद्विशेषप्रतिपादनायाह-समतिक्रान्तयौवनः, एकान्तस्थविर इति भावः, तदा विपाककटुकत्वाद्भोगानां मत्स्य For Private & Personal Use Only lainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy