________________
Jain Education Int
तवे संज अ । तवसा धुणइ पुराणपावगं, मणवयकायसुसंबुडे जे स भिक्खू ॥ ७ ॥ तहेव असणं पाणगं वा, विविहं खाइमसाइमं लभित्ता । होही अट्ठो सुए परे वा, तं न निहे न निहावए जे स भिक्खू ॥ ८ ॥ तहेव असणं पाणगं वा, विविहं खाइमसाइमं लभित्ता । छंदिअ साहम्मिआण भुंजे, भुच्चा सज्झायरए जे स भिक्खू ॥ ९ ॥ न य वुग्गहिअं कहं कहिज्जा, न य कुप्पे निहुइंदिए पसंते । संजमे धुवं जोगेण जुत्ते, उवसंते अविहेडए जे स भिक्खू ॥ १० ॥
किं च- चतुरः क्रोधादीन् वमति तत्प्रतिपक्षाभ्यासेन 'सदा' सर्वकालं कषायान्, ध्रुवयोगी च- उचितनित्ययोगवांश्च भवति, बुद्धवचन इति तृतीयार्थे सप्तमी, तीर्थकरवचनेन करणभूतेन, ध्रुवयोगी भवति यथागममेवेति भावः, 'अधनः' चतुष्पदादिरहितः 'निर्जातरूपरजतों' निर्गतसुवर्णरूप्य इति भावः, 'गृहियोगं' मूर्च्छया गृहस्थसंबन्धं 'परिवर्जयति' सर्वैः प्रकारैः परित्यजति यः स भिक्षुरिति सूत्रार्थः ॥ ६ ॥ तथा — 'सम्यगदृष्टि:' भावसम्यग्दर्शनी सदा 'अमूढः' अविष्ठुतः सन्नेवं मन्यते-अस्त्येव ज्ञानं हेयोपादेयविषयमतीन्द्रिये - ध्वपि तपश्च बाह्याभ्यन्तरकर्ममलापनयनजलकल्पं संयमश्च नवकर्मानुपादानरूपः इत्थं च दृढभावस्तपसा
For Private & Personal Use Only
jainelibrary.org