________________
दशवैका.
१० सभिवध्य.
॥२६६॥
धुनोति पुराणपापं भावसारया प्रवृत्त्या 'मनोवाकायसंवृतः' तिमृभिर्गुप्तिभिर्गुप्तो यः स भिक्षुरिति सूत्रार्थः ॥७॥'तथैवेति पूर्वर्षिविधानेन 'अशनं पानं च' प्रागुक्तखरूपं तथा 'विविधम्' अनेकप्रकारं 'खाद्यं खाद्यं च' प्रागुक्तखरूपमेव 'लब्ध्वा' प्राप्य, किमित्याह-भविष्यति 'अर्थ' प्रयोजनमनेन श्वः परश्वो वेति 'तद्' अशनादि 'न निधत्ते' न स्थापयति स्वयं तथा 'न निधापयति' न स्थापयत्यन्यैः स्थापयन्तमन्यं नानुजानाति, यः सर्वथा संनिधिपरित्यागवान् स भिक्षुरिति सूत्रार्थः॥८॥ किं च-तथैवाशनं पानं च विविधं खाद्य खाद्यं च लब्ध्वेति पूर्ववत्, लब्ध्वा किमित्याह-'छन्दित्वा' निमय 'समानधार्मिकान्' साधून् भुड़े, खात्मतुल्य
तया तद्वात्सल्यसिद्धेः, तथा भुक्त्वा स्वाध्यायरतश्च यः चशब्दाच्छेषानुष्ठानपरश्च यः स भिक्षुरिति सूत्रार्थः है॥९॥ भिक्षुलक्षणाधिकार एवाह-न च 'वैग्रहिकी' कलहप्रतिबद्धां कथां कथयति, सद्वादकथादिष्वपि न च ।
कुप्यति परस्य, अपितु 'निभृतेन्द्रियः' अनुद्धतेन्द्रियः 'प्रशान्तो' रागादिरहित एवास्ते, तथा 'संयमें पूर्वोक्ते ध्रुवं सर्वकालं 'योगेन' कायवाअानाकर्मलक्षणेन युक्तो योगयुक्तः, प्रतिभेदमौचित्येन प्रवृत्तः, तथा 'उपशान्तः' अनाकुलः कायचापलादिरहितः 'अविहेठक' न कचिदुचितेऽनादरवान्, क्रोधादीनां विश्लेषक इत्यन्ये, य इत्थंभूतः स भिक्षुरिति सूत्रार्थः ॥१०॥
जो सहइ हु गामकंटए, अक्कोसपहारतजणाओ अ । भयभेरवसदसप्पहासे, समसु
॥२६६॥
Jain Education in
Sell
For Private & Personel Use Only
TMainelibrary.org