________________
दशवैका ० हारि-वृत्तिः
॥ २६५ ॥
Jain Education Inte
षड्जीवनिकायादिषु सर्वाध्ययनेष्वयमर्थोऽभिहितः किमर्थं पुनरुक्त इति उच्यते, तदुक्तार्थानुष्ठानपर एव भिक्षुरिति ज्ञापनार्थे, ततश्च न दोष इति सूत्रार्थः ||२|| तथा 'अनिलेन' अनिलहेतुना चेलकर्णादिना न वीज| यत्यात्मादि स्वयं न वीजयति परैः । 'हरितानि' शष्पादीनि न छिनत्ति स्वयं न छेदयति परैः, 'बीजानि ' हरितफलरूपाणि व्रीह्यादीनि 'सदा' सर्वकालं विवर्जयन् संघट्टनादिक्रियया, सचित्तं नाहारयति यः कदाचिदप्यपुष्टालम्बनः स भिक्षुरिति सूत्रार्थः ॥ ३ ॥ औदेशिकादिपरिहारेण सस्थावरपरिहारमाह - 'वधनं' हननं 'सस्थावराणां' द्वीन्द्रियादिपृथिव्यादीनां भवति कृतौद्देशिके, किंविशिष्टानाम् ? – 'पृथिवीतृणकाष्ठनिश्रितानां तथासमारम्भात्, यस्मादेवं तस्मादौदेशिकं कृताद्यन्यच्च सावद्यं न भुङ्क्ते, न केवलमेतत्, किंतु ? नापि पचति स्वयं न पाचयति अन्यैर्न पचन्तमनुजानाति यः स भिक्षुरिति सूत्रार्थः ॥ ४ ॥ किंच - ' रोच यित्वा' विधिग्रहणभावनाभ्यां प्रियं कृत्वा, किं तदित्याह - 'ज्ञातपुत्रवचनं' भगवन्महावीरवर्धमानवचनम् 'आत्मसमान्' आत्मतुल्यान् मन्यते 'षडपि कायान्' पृथिव्यादीन्, 'पञ्च चे 'ति चशब्दोऽप्यर्थः पञ्चापि स्पृशति' सेवते महाव्रतानि 'पञ्चाश्रवसंवृतश्च' द्रव्यतोऽपि पञ्चेन्द्रियसंवृतश्च यः स भिक्षुरिति सूत्रार्थः ॥ ५ ॥ चत्तारि वमे सया कसा, धुवजोगी हविज्ज बुद्धवयणे । अहणे निजायरूवरयए, गिहिजोगं परिवज्जए जे स भिक्खू ॥ ६ ॥ सम्मदिट्ठी सया अमूढे, अत्थि हु नाणे
For Private & Personal Use Only
%%%
१० सभि
क्ष्वध्य०
॥ २६५ ॥
Wainelibrary.org