________________
सथावराण होइ, पुढवीतणकटनिस्सिआणं । तम्हा उद्देसिअं न भुंजे, नोऽवि पए न पयावए जे स भिक्खू ॥४॥रोइअ नायपुत्तवयणे, अत्तसमे मन्निज छप्पि काए।
पंच य फासे महव्वयाई, पंचासवसंवरे जे स भिक्खू ॥ ५॥ 'निष्क्रम्य द्रव्यभावगृहात् प्रवज्यां गृहीत्वेत्यर्थः 'आज्ञया तीर्थकरगणधरोपदेशेन योग्यतायां सत्यां, निष्क्रम्य किमित्याह-बुद्धवचने' अवगततत्त्वतीर्थकरगणधरवचने 'नित्यं सर्वकालं 'चित्तसमाहितः चित्तेनातिप्रसन्नो भवेत्, प्रवचन एवाभियुक्त इति गर्भः, व्यतिरेकतः समाधानोपायमाह-स्त्रीणां' सर्वासत्कार्यनिबन्धनभूतानां 'वशं तदायत्ततारूपं न चापि गच्छेत्, तद्वशगो हि नियमतो वान्तं प्रत्यापिबति, 'अतो बुद्धवचनचित्तसमाधानतः सर्वथा स्त्रीवशत्यागादू, अनेनैवोपायनान्योपायासंभवात्, 'वान्तं' परित्यक्तं सद्विषयजम्बालं 'न प्रत्यापिबति न मनागप्याभोगतोऽनाभोगतश्च तत्सेवते यः स भिक्षुः ४-भावभिक्षुरिति सूत्रार्थः॥१॥ तथा-'पृथिवीं सचेतनादिरूपां न खनति खयं न खानयति परैः, 'एकन
हणे तज्जातीयग्रहण मिति खनन्तमप्यन्यं न समनुजानाति, एवं सर्वत्र वेदितव्यं । 'शीतोदकं सचित्तं पा|नीयं न पिबति खयं न पाययति परानिति, अग्निः षडूजीवघातकः, किंवदित्याह-शस्त्रं' खड्गादि यथा 'सुनिशितम्' उज्ज्वालितं तद्वत्, तं न ज्यालयति खयं न ज्वालयति परैः, य इत्थंभूतः स भिक्षुः । आह
-
चा०४५
Jain Education
For Private & Personel Use Only
Jhjainelibrary.org