________________
दशवका० हारि-वृत्तिः
॥२६३॥
'अकुथनीयं न कदाचिदपि कुथतीत्येतेऽष्टावनन्तरोदिताः 'सुवर्णे सुवर्णविषया गुणा भणितास्तत्वरूपज्ञैरिति 8|१० सभिगाथार्थः॥ उक्ताः सुवर्णगुणाः, साम्प्रतमुपनयमाह
श्वध्य० चउकारणपरिसुद्धं कसछेअणतावतालणाए अ । जं तं विसघाइरसायणाइगुणसंजु होइ ॥ ३५२ ॥ 'चतुष्कारणपरिशुद्धं' चतुःपरीक्षायुक्तमित्यर्थः, कथमित्याह-कषच्छेदतापताडनया चेति कषेण छेदेन तापेन ताडनया च, यदेवंविधं तद्विषघाति रसायनादिगुणसंयुक्तं भवति, भावसुवर्ण खकार्यसाधकमिति गाथार्थः॥ यच्चैवंभूतम्
तं कसिणगुणोवेअं होइ सुवण्णं न सेसयं जुत्ती । नहि नामरूवमेत्तेण एवमगुणो हवइ भिक्खू ।। ३५३ ॥ 'तद' अनन्तरोदितं 'कत्लगुणोपेतं' संपूर्णगुणसमन्वितं भवति सुवर्ण यथोक्तं, न 'शेष' कषाद्यशुद्धं, 'युक्ति'रिति वर्णादिगुणसाम्येऽपि युक्तिसुवर्णमित्यर्थः, प्रकृते योजयति-यथैतत्सुवर्ण न भवति, एवं न हि नामरूपमात्रेण-रजोहरणादिसंधारणादिना 'अगुणः' अविद्यमानप्रस्तुताध्ययनोक्तगुणो भवति भिक्षुः, भिक्षामटन्नपि न भवतीति गाथार्थः॥ एतदेव स्पष्टयन्नाह
जुत्तीसुवण्णगं पुण सुवण्णवण्णं तु जइवि कीरिज्जा । न हु होइ तं सुवण्णं सेसेहि गुणेहिं संतेहिं ॥ ३५४ ॥ युक्तिसुवर्ण कृत्रिमसुवर्णमिह लोके 'सुवर्णवर्ण तु'जात्यसुवर्णवर्णमपि यद्यपि क्रियेत पुरुषनैपुण्येन तथापि नैव 3 २६३॥ भवति तत् सुवर्ण परमार्थेन 'शेषैर्गुणैः कषादिभिः 'असद्भिः' अविद्यमानैरिति गाथार्थः । एवमेव किमित्याह
A
Jan Education Interation
For Private Personel Use Only