________________
न्मार्दवं, परस्मिन्निकृतिपरेऽपि मायापरित्याग आर्जवं, धर्मोपकरणेष्वप्यमूर्छा विमुक्तता, तथाऽशनाद्यलाभेऽप्यदीनता, क्षुदादिपरीषहोपनिपातेऽपि तितिक्षा, तथा 'आवश्यकपरिशुद्धिश्च' अवश्यंकरणीययोगनिरतिचारता च, भवन्ति 'भिक्षोः' भावसाधोः 'लिङ्गानि' अनन्तरोदितानि संवेगादीनीति गाथार्थः ॥ व्याख्यातं लिङ्गद्वारम् , अवयवद्वारमाह
अज्झयणगुणी भिक्खू न सेस इइ णो पइन्न-को हेऊ? । अगुणत्ता इइ हेऊ-को दिट्ठतो? सुवण्णमिव ॥ ३५० ॥ 'अध्ययनगुणी' प्रक्रान्ताध्ययनोक्तगुणवान् भिक्षुः' भावसाधुर्भवतीति, तत्खरूपमेतत्, 'न शेषः' तद्गुणरहित इति 'नः प्रतिज्ञा' अस्माकं पक्षः, 'को हेतुः? कोऽत्र पक्षधर्म इत्याशङ्कयाह-'अगुणत्वादिति हेतुः' अविद्यमानगुणोऽगुणस्तद्भावस्तत्त्वं तस्मादित्ययं हेतुः, अध्ययनगुणशून्यस्य भिक्षुत्वप्रतिषेधः साध्य इति, 'को दृष्टान्तः? किं पुनरत्र निदर्शनमित्याशङ्ख्याह-सुवर्णमिव यथा सुवर्ण खगुणरहितं सुवर्ण न भवति तद्वदिति गाथार्थः ॥ सुवर्णगुणानाह
विसघाइ रसायण मंगलत्थ विणिए पयाहिणावत्ते । गुरुए अडझऽकुत्थे अट्ठ सुवण्णे गुणा भणिआ ॥ ३५१ ॥ 'विषघाति विषघातनसमर्थ 'रसायनं' वयस्तम्भनकत 'मङ्गलार्थ मङ्गलप्रयोजनं 'विनीतं' यथेष्टकटकादिप्रकारसंपादनेन 'प्रदक्षिणावर्त तप्यमानं प्रादक्षिण्यनावर्तते 'गुरु' सारोपेतम् 'अदाह्यं नाग्निना दद्यते
RSSCCCC
R
Jan Education in
For Private
Personal Use Only