SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ भिक्षणशीलो भिक्षुरितिकृत्वा, अनेनैव प्रसङ्गेन अन्येषामपि तत्पर्यायाणां निरुक्तमाह-क्षपयति 'यद यस्माद्वा 'ऋणं' कर्म तस्मात्क्षपणः, क्षपयतीति क्षपण इतिकृत्वा, तथा संयमतपसीति संयमप्रधानं तपः संयमतपः तस्मिन् विद्यमाने तपस्वीति वापि भवति, तपोऽस्यास्तीतिकृत्वा, अन्योऽपि पर्याय इति-अन्योऽपि भेदोऽर्थतो भिक्षुशब्दनिरुक्तस्येति गाथार्थः । उक्तं निरुक्तद्वारम् , अधुनैकार्थिकद्वारमाह तिने ताई दविए वई अ खंते अ दंत विरए अ । मुणितावसपन्नवगुजुभिक्खू बुद्धे जइ विऊ अ ॥ ३४५ ॥ | तीर्णवत्तीर्णः विशुद्धसम्यग्दर्शनादिलाभाद्भवार्णवमिति गम्यते, तायोऽस्यास्तीति तायी, तायः सुदृष्टमागोंक्तिः, सुपरिज्ञातदेशनया विनेयपालयितेत्यर्थः, द्रव्यं रागद्वेषरहितः, व्रती च हिंसादिविरतश्च, क्षान्तश्च क्षाम्यति क्षमा करोतीति क्षान्तः, बहुलवचनात् कर्तरि निष्ठा, एवं दाम्यतीन्द्रियादिदमं करोतीति दान्तः, विरतश्च विषयसुखनिवृत्तश्च, मुनिर्मन्यते जगतस्त्रिकालावस्थामिति मुनिः, तपःप्रधानस्तापसः, प्रज्ञापकोऽपवर्गमार्गस्य प्ररूपकः, ऋजुः-मायारहितः संयमवान् वा, भिक्षुः पूर्ववत्, बुद्धोऽवगततत्वः, यतिरुत्तमाश्रमी प्रयत्नवान् वा, विद्वांश्च-पण्डितश्चेति गाथार्थः ॥ तथा पव्वइए अणगारे पासंडी चरग बंभणे चेव । परिवायगे अ समणे निग्गंथे संजए मुत्ते ॥ ३४६ ।। प्रव्रजितः-पापान्निष्क्रान्तः, अनगारो-द्रव्यभावागारशून्यः, पाषण्डी-पाशाड्डीनः, चरकः पूर्ववत्, 'ब्राह्म Jain Education in For Private & Personel Use Only jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy