________________
दशवैका ० हारि-वृत्तिः
॥ २६१ ॥
Jain Education Internation
भावभिक्षुर्द्विविधः - आगमतो नोआगमतञ्च तत्रागमत 'उपयुक्त' इति भिक्षुपदार्थज्ञस्तत्र चोपयुक्तः, 'तद्गुणसंवेदकस्तु' भिक्षुगुणसंवेदकः पुनर्नोआगमतो भवति भावभिक्षुरित्युक्तो भिक्षुनिक्षेपः । साम्प्रतं निरुक्तमभिधातुकाम आह— 'तस्य निरुक्त' मिति 'तस्य' भिक्षोर्निश्चितमुक्तमन्वर्थरूपं भेदकभेदन भेतव्यैरेभिर्भेदैर्वक्ष्यमाणैस्त्रिधा भवतीति गाथार्थः ॥ एतदेव स्पष्टयति
भेत्ताऽऽगमो उत्तो दुविह तवो भेअणं च भेत्तव्वं । अट्ठविहं कम्मखुहं तेण निरुत्तं स भिक्खुत्ति ।। ३४२ ॥ 'भेत्ता' भेदकोऽत्रागमोपयुक्तः साधुः, तथा 'द्विविधं' बाह्याभ्यन्तरभेदेन तपो भेदनं वर्तते, तथा 'भेत्तव्यं' विदारणीयं चाष्टविधं कर्म च - अष्टप्रकारं ज्ञानावरणीयादि कर्म, तच क्षुदादिदुःखहेतुत्वात् क्षुच्छन्दवाच्यं, यतश्चैवं तेन निरुक्तं यः शास्त्रनीत्या तपसा कर्म भिनत्ति स भिक्षुरिति गाथार्थः ॥ किं च
भिदंतो अ जह खुहं भिक्खू जयमाणओ जई होइ । संजमचरओ चरओ भवं खिवंतो भवंतो उ || ३४३ ॥ 'भिन्दंश्च' विदारयंश्च यथा 'क्षुधं' कर्म भिक्षुर्भवति, भावतो यतमानस्तथा तथा गुणेषु स एव यतिर्भवति नान्यथा, एवं 'संयमचरकः' सप्तदशप्रकार संयमानुष्ठायी चरकः, एवं 'भवं' संसारं 'क्षपयन' परीतं कुर्वन् स एव भवान्तो भवति नान्यथेति गाथार्थः ॥ प्रकारान्तरेण निरुक्तमेवाह
जं भिक्खमत्तवित्ती तेण व भिक्खू खवेइ जं व अणं । तवसंजमे तवस्सित्ति वावि अन्नोऽवि पज्जाओ ।। ३४४ ॥ 'यद्' यस्माद् 'भिक्षामात्रवृत्तिः' भिक्षामात्रेण सर्वोपधाशुद्धेन वृत्तिरस्येति समासः, तेन वा भिक्षु
For Private & Personal Use Only
१० सभि - क्ष्वध्य०
॥ २६१ ॥
jainelibrary.org