SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ दशवैका ० हारि-वृत्तिः ।। २५४ ।। Jain Education Inf रस्त्वमित्यादिरूपां भाषां तथा 'अवधारिणीम्' अशोभन एवायमित्यादिरूपाम् 'अप्रियकारिणीं च' श्रोतुमृतनिवेदनादिरूपां 'भाषा' वाचं 'न भाषेत सदा' यः कदाचिदपि नैव ब्रूयात्स पूज्य इति सूत्रार्थः ॥ ९ ॥ तथा - 'अलोलुप' आहारादिष्यलुब्धः 'अकुहक' इन्द्रजालादिकुहकरहितः 'अमायी' कौटिल्यशून्यः 'अपिशुनश्चापि' नो छेदभेदकर्ता 'अदीनवृत्ति:' आहारायला भेऽपि शुद्धवृत्तिः ( ग्रन्थाग्रम् ६००० ) नो भावयेद् अकुशलभावनया परं यथाऽमुकपुरतो भवताऽहं वर्णनीयः 'नापि च भावितात्मा' स्वयमन्यपुरतः खगुणवर्णनापर: अकौतुकच सदा नटनर्त्तकादिषु यः स पूज्य इति सूत्रार्थः ॥ १० ॥ किंच - 'गुणैः' अनन्तरोदितैर्विनयादिभिर्युक्तः साधुर्भवति, तथा 'अगुणैः' उक्तगुणविपरीतैरसाधुः, एवं सति गृहाण साधुगुणान् मुञ्चासाधुगुणानिति शोभन उपदेशः, एवमधिकृत्य प्राकृतशैल्या 'विज्ञापयति' विविधं ज्ञापयत्यात्मानमात्मना यः तथा 'रागद्वेषयोः समः' न रागवान्न द्वेषवानिति स पूज्य इति सूत्रार्थः ॥ ११ ॥ किं च - ' तथैवे 'ति पूर्ववत्, डहरं वा महलकं वा, वाशब्दान्मध्यमं वा, स्त्रियं पुमांसमुपलक्षणत्वान्नपुंसकं वा प्रव्रजितं गृहिणं वा, वाशब्दादन्यतीर्थिकं वा 'न हीलयति नापि च खिंसयति' तत्र सूयया असूयया वा सकृदुष्टाभि धानं हीलनं, तदेवासकृत्खिसनमिति । हीलनखिसनयोश्च निमित्तभूतं 'स्तम्भं च' मानं च 'क्रोधं च' रोषं च त्यजति यः स पूज्यो, निदानत्यागेन तत्त्वतः कार्यत्यागादिति सूत्रार्थः ॥ १२ ॥ किं च-ये मानिता अभ्युस्थानादिसत्कारै: 'सततम्' अनवरतं शिष्यान् 'मानयन्ति श्रुतोपदेशं प्रति चोदनादिभिः, तथा 'यत्नेन क For Private & Personal Use Only १९ विनय समाध्य ध्ययनम् ३ उद्देशः ॥ २५४ ॥ lainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy