SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ दश० ४३ Jain Education Int दिभावरत्नाभ्युच्छ्रितेषु 'विनय' यथोचितं 'प्रयुङ्क्ते' करोति, तथा डहरा अपि च ये वयः श्रुताभ्यां 'पर्यायज्येष्ठा:' चिरप्रव्रजितास्तेषु विनयं प्रयुङ्क्ते, एवं च यो 'नीचत्वे' गुणाधिकान् प्रति नीचभावे वर्त्तते 'सत्यवादी' अविरुद्धवक्ता तथा 'अवपातवान्' वन्दनशीलो निकटवर्ती वा एवं च यो 'वाक्यकरो' गुरुनिर्देशकरणशीलः स पूज्य इति सूत्रार्थः ॥ ३ ॥ किं च- 'अज्ञातोञ्छ' परिचयाकरणेनाज्ञातः सन् भावोञ्छं गृहस्थोद्धरितादि 'चरति' अटित्वाऽऽनीतं भुङ्क्ते, न तु ज्ञातस्तद्बहुमतमिति, एतदपि 'विशुद्धम्' उद्गमादिदोषरहितं न तद्विपरीतम्, एतदपि 'यापनार्थ संयमभरोद्वाहिशरीरपालनाय नान्यथा 'समुदानं च' उचितभिक्षालब्धं च 'नित्यं' सर्वकालं न तूञ्छमप्येकत्रैव बहुलब्धं कादाचित्कं वा, एवंभूतमपि विभागतः 'अलब्ध्वा' अनासाथ 'न परि देवयेत्' न खेदं यायात्, यथा- मन्दभाग्योऽहमशोभनो वाऽयं देश इति, एवं विभागतश्च 'लब्ध्वा' प्राप्यो चितं 'न विकत्थते' न श्लाघां करोति- सपुण्योऽहं शोभनो वाऽयं देश इत्येवं स पूज्य इति सूत्रार्थः ॥ ४ ॥ किं च संस्तारकशय्यासनभक्तपानानि प्रतीतान्येव, एतेषु 'अल्पेच्छता' अमूच्छेया परिभोगोऽतिरिक्ताग्रहणं वा अतिलाभेऽपि सति संस्तारकादीनां गृहस्थेभ्यः सकाशात् य एवमात्मानम् 'अभितोषयति' येन वा तेन वा यापयति 'संतोषप्राधान्यरतः' संतोष एव प्रधानभावे सक्तः स पूज्य इति सूत्रार्थः ॥ ५ ॥ इन्द्रियसमाधिद्वारेण पूज्यतामाह-शक्याः सोढुम् ' आशयेति इदं मे भविष्यतीति प्रत्याशया, क इत्याह- कण्टका 'अयोमया' लोहात्मकाः 'उत्सहता नरेण' अर्थोद्यमवतेत्यर्थः तथा च कुर्वन्ति केचिदयोमयकण्टकास्तरणशय For Private & Personal Use Only ainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy