________________
दशवैका ० हारि-वृत्तिः
॥ २५२ ॥
Jain Education In
वंति कंटया, अओमया तेऽवि तओ सुउद्धरा । वायादुरुत्ताणि दुरुद्धराणि, वेराणुबंणि महभाणि ॥ ७ ॥
साम्प्रतं तृतीय आरभ्यते, इह च विनीतः पूज्य इत्युपदर्शयन्नाह - 'आचार्य' सूत्रार्थप्रदं तत्स्थानीयं वाऽन्यं ज्येष्ठार्य, किमित्याह - 'अग्निमिव' तेजस्कायमिव 'आहिताग्निः' ब्राह्मण: 'शुश्रूषमाणः' सम्यक्सेवमानः 'प्रतिजागृयात्' तत्तत्कृत्य संपादनेनोपचरेत् । आह-यथाऽऽहिताग्निरित्यादिना प्राणिदमुक्तमेव, सत्यं, किं तु तदाचार्यमेवाङ्गीकृत्य इदं तु रत्नाधिकादिकमप्यधिकृत्योच्यते, वक्ष्यति च - 'रायणीएस विणय मित्यादि, | प्रतिजागरणोपायमाह - 'आलोकितं' निरीक्षितम् 'इङ्गितमेव च' अन्यथावृत्तिलक्षणं 'ज्ञात्वा' विज्ञायाचाययं 'यः' साधुः 'छन्दः' अभिप्रायमाराधयति । यथा शीते पतति प्रावरणावलोकने तदानयने, इङ्गिते वा निष्ठीवनादिलक्षणे शुण्ठ्याद्यानयनेन 'स पूज्यः स इत्थंभूतः साधुः पूजार्हः, कल्याणभागिति सूत्रार्थः ॥ १ ॥ प्रक्रान्ताधिकार एवाह - 'आचारार्थ' ज्ञानाद्याचारनिमित्तं 'विनयम्' उक्तलक्षणं 'प्रयुङ्क्ते' करोति यः 'शुश्रू पन् श्रोतुमिच्छन्, किमयं वक्ष्यतीत्येवम् । तदनु तेनोक्ते सति परिगृह्य वाक्यम् आचार्ययं ततश्च 'यथोपदिष्टं यथोक्तमेव अभिकाङ्क्षन्, मायारहितः श्रद्धया कर्त्तुमिच्छन् विनयं प्रयुङ्क्ते, अतोऽन्यथाकरणेन 'गुरुं वि'ति आचार्यमेव 'नाशातयति' न हीलयति यः स पूज्य इति सूत्रार्थः ॥ २ ॥ किं च - 'रत्नाधिकेषु' ज्ञाना
For Private & Personal Use Only
९ विनय
समाध्यध्ययनम्
३ उद्देशः
।। २५२ ॥
ainelibrary.org