SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ 1-86 नादिना पूर्वोक्तेन 'शिरसा' उत्तमाङ्गेन 'प्राञ्जलिः' प्रोद्गताञ्जलिः सन् 'कायेन' देहेन 'गिरा' वाचा मस्तकेन वन्दे इत्यादिरूपया 'भो' इति शिष्यामन्त्रणं 'मनसा च' भावप्रतिबन्धरूपेण 'नित्यं सदैव सत्कारयेत्, न तु सूत्रग्रहणकाल एव, कुशलानुबन्धव्यवच्छेदप्रसङ्गादिति सूत्रार्थः ॥ १२ ॥ एवं च मनसि कुर्यादित्याह'लज्जा दयत्ति सूत्रं, 'लज्जा' अपवादभयरूपा 'दया' अनुकम्पा 'संयमः' पृथिव्यादिजीवविषयः 'ब्रह्मचर्य' विशुद्धतपोऽनुष्ठानम्, एतल्लज्जादि विपक्षव्यावृत्त्या कुशलपक्षप्रवर्तकत्वेन कल्याणभागिनो जीवस्य 'विशोधिस्थानं कर्ममलापनयनस्थानं वर्तते, अनेन ये मां 'गुरव' आचार्याः 'सततम्' अनवरतम् 'अनुशासयन्ति' कल्याणयोग्यतां नयन्ति तानहमेवंभूतान् गुरून सततं पूजयामि, न तेभ्योऽन्यः पूजाह इति सूत्रार्थः ॥ १३॥ इत्तश्चैते पूज्या इत्याह-जह'त्ति सूत्रं, यथा निशान्ते' रात्र्यवसाने दिवस इत्यर्थः, तपन् 'अर्चिाली' सूर्यः 'प्रभासयति' उद्योतयति केवलं' संपूर्ण 'भारत' भरतक्षेत्रं, तुशब्दादन्यच क्रमेण एवम्-अर्चिालीवाचार्यः 'श्रुतेन' आगमेन 'शीलेन' परद्रोहविरतिरूपेण 'बुद्ध्या च' स्वाभाविक्या युक्तः सन् प्रकाशयति जीवादिभावानिति । एवं च वर्तमानः सुसाधुभिः परिवृतो विराजते 'सुरमध्य इव' सामानिकादिमध्यगत इव इन्द्र इति सूत्रार्थः॥१४॥ किंच-'जह'त्ति सूत्रं, यथा 'शशी' चन्द्रः'कौमुदीयोगयुक्तः' कार्तिकपौर्णमास्यामुदित इ. त्यर्थः, स एव विशेष्यते-'नक्षत्रतारागणपरिवृतात्मा' नक्षत्रादिभिर्युक्त इति भावः, 'खें' आकाशे शोभते, किंविशिष्टे खे?-'विमलेऽभ्रमुक्ते' अभ्रमुक्तमेवात्यन्तं विमलं (तत्) भवतीति ख्यापनार्थमेतत् , एवं चन्द्र इव 'गणी' Jain Education I T For Private & Personel Use Only H djainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy