________________
दशवैका हारि-वृत्तिः
९विनयसमाध्यध्ययनम् २ उद्देश:
॥२४६॥
(तत्) आचार्यः शोभते भिक्षुमध्ये साधुमध्ये, अतोऽयं महत्त्वात्पूज्य इति सूत्रार्थः॥१५॥ किंच-'महाग'त्ति सूत्र, महाकरा ज्ञानादिभावरत्नापेक्षया आचार्या 'महैषिणों मोक्षैषिणः, कथं महैषिण इत्याह-'समाधियोगश्रुतशीलबुद्धिभिः' समाधियोगैः-ध्यानविशेषैः श्रुतेन-द्वादशाङ्गाभ्यासेन शीलेन-परद्रोहविरतिरूपेण बुद्ध्या च औत्पत्तिक्यादिरूपया, अन्ये तु व्याचक्षते-समाधियोगश्रुतशीलवुद्धीनां महाकरा इति । तानेभूतानाचार्यान् संप्राप्तुकामोऽनुत्तराणि ज्ञानादीनि आराधयेद्विनयकरणेन, न सकृदेव, अपि तु 'तोषयेद' असकृत्करणेन तोषं ग्राहयेत् धर्मकामो-निर्जराथ, न तु ज्ञानादिफलापेक्षयाऽपीति सूत्रार्थः ॥१६॥'सोचाण'त्ति सूत्रं, श्रुत्वा मेधावी सुभाषितानि गुर्वाराधनफलाभिधायीनि, किमित्याह-शुश्रूषयेदाचार्यान् 'अप्रमत्तो निद्रादिरहितस्तदाज्ञां कुर्वीतेत्यर्थः, य एवं गुरुशुश्रूषापरःस आराध्य 'गुणान्' अनेकान् ज्ञानादीन् प्राप्नोति सिद्धिमनुत्तरां, मुक्तिमित्यर्थः, अनन्तरं सुकुलादिपरम्परया वा । ब्रवीमीति पूर्ववदयं सूत्रार्थः ॥१७॥
इति श्रीदशवैकालिकटीकायां श्रीहरिभद्रसूरिविरचितायां नवमाध्ययने प्रथम उद्देशकः ॥१॥
॥२४६॥
अथ द्वितीय उद्देशः। मूलाउ खंधप्पभवो दुमस्स, खंधाउ पच्छा समुविंति साहा । साहप्पसाहा विरुहंति
Jain Educaton In
For Private & Personel Use Only
R
ainelibrary.org