________________
लक्षणो वक्ष्यमाण इति गाथार्थः । उक्तो धर्मः, साम्प्रतं मङ्गलस्यावसरः, तच प्राग्निरूपितशब्दार्थमेव, तत्पुनर्ना - मादिभेदतश्चतुर्धा, तत्र नामस्थापने क्षुण्णत्वात्साक्षादनादृत्य द्रव्यभावमङ्गलाभिधित्सयाऽऽह—
दुव्वे भावेऽवि अ मंगलाई दुव्वम्मि पुण्णकलसाई । धम्मो उ भावमंगलमेत्तो सिद्धित्ति काऊणं ॥ ४४ ॥
व्याख्या- 'द्रव्यं' इति द्रव्यमधिकृत्य भाव इति भावं च मङ्गले अपिशब्दान्नामस्थापने च । तत्र 'दव्वम्मि पुण्णकलसाई' द्रव्यमधिकृत्य पूर्णकलशादि, आदिशब्दात् स्वस्तिकादिपरिग्रहः, धर्मस्तु तुशब्दोऽवधारणे धर्म एव भावमङ्गलं । कुत एतदित्यत आह- 'अतः' अस्माद्धर्म्मात्क्षान्त्यादिलक्षणात् 'सिद्धिरितिकृत्वा' मोक्ष इतिकृत्वा, भवगालनादिति गाथार्थः ॥ अयमेव चोत्कृष्टं प्रधानं मङ्गलम्, एकान्तिकत्वादात्यन्तिकत्वाच्च, न पूर्णकलशादि, तस्य नैकान्तिकत्वादनात्यन्तिकत्वाच्च ॥ साम्प्रतं 'यथोद्देशं निर्देश' इतिकृत्वा हिंसाविपक्षतोऽहिंसा, तां प्रतिपादयन्नाह—
हिंसाए पडिवक्खो होइ अहिंसा चडव्विहा सा उ । दव्वे भावे अ तहा अहिंसऽजीवाइवाओत्ति ॥ ४५ ॥
सच्चग्गहणेणं मुसावादविरती गहिया, बंभचेरगहणेणं मेहुणविरती गहिया, अकिंचणियगहणेणं अपरिग्गहो गहिओ अदत्तादाणविरती य गहिया, जेण सदेहेवि णिस्संगता कायब्वा तम्हा ताव अपरिग्गहिया गहिया, जो सद्दहे निस्संगो कहूं सो अदिनं गेहति ?, तम्हा अकिंचणियगहणेण अदत्तादाणविरती गहिया चेव, अहवा एगग्गहणे तज्जातीयाणं गहणं कथं भवतित्ति तम्हा अहिंसागणेण अदिन्नादाणविरती ग़हिया, खंत्तिमद्दवज्जवतवोगहणेण उत्तरगुणाणं गहणं कथं भवइत्ति, धम्मोति-दारं गयं. १ तत्र संयमादिना क्षान्तिप्रमुखेन मूलोत्तरगुणाख्यानं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org