________________
S
यया तु मन्दप्रज्ञस्त्वमित्याचभिदधति, 'मिथ्यात्वं प्रतिपद्यमाना' इति गुरुन हीलनीय इति तत्त्वमन्यथाऽवगच्छन्तः कुर्वन्ति 'आशातना' लघुतापादनरूपां'ते' द्रव्यसाधवः 'गुरूणाम् आचार्याणां, तत्स्थापनाया अबहुमानेन एकगुर्वाशातनायां सर्वेषामाशातनेति बहुवचनम् , अथवा कुर्वन्ति 'आशातनां' खसम्यग्दर्शनादिभावापहासरूपांते गुरूणां संबन्धिनी, तन्निमित्तत्वादिति सूत्रार्थः॥२॥ अतोन कार्या हीलनेति, आह च-पगई'त्ति सूत्रं, 'प्रकृत्या' स्वभावेन कर्मवैचित्र्यात् 'मन्दा अपि सद्बुद्धिरहिता अपि भवन्ति 'एके केचन वयोवृद्धा अपि तथा 'डहरा अपि च' अपरिणता अपि च वयसाऽन्येऽमन्दा भवन्तीति वाक्यशेषः, किंविशिष्टा इत्याह-ये च 'श्रुतबुड्युपपेताः' तथा सत्प्रज्ञावन्तः श्रुतेन बुद्धिभावेन वा, भाविनी वृत्तिमाश्रित्याल्पश्रुता इति, सर्वथा 'आचारवन्तो ज्ञानाद्याचारसमन्विताः 'गुणसुस्थितात्मानो' गुणेषु-संग्रहो
पग्रहादिषु सुष्टु-भावसारं स्थित आत्मा येषां ते तथाविधा न हीलनीयाः, ये 'हीलिताः' खिंसिताः 'शिसूखीव' अग्निरिवेन्धनसंघातं 'भस्मसात्कुयुः ज्ञानादिगुणसंघातमपनयेयुरिति सूत्रार्थः॥३॥ विशेषेण डह
रहीलनादोषमाह-'जे आवित्ति सूत्रं, यश्चापि कश्चिदज्ञो 'नागं सर्प डहर इति' बाल इति 'ज्ञात्वा' विज्ञाय 'आशातयति' किलिञ्चादिना कदर्थयति 'स' कदर्थ्यमानो नागः 'से' तस्य कदर्थकस्य 'अहिताय भवति' भक्षणेन प्राणनाशाय भवति, एष दृष्टान्तोऽयमर्थोपनयः-एवमाचार्यमपि कारणतोऽपरिणतमेव स्था|पितं हीलयन् निर्गच्छति 'जातिपन्थान' द्वीन्द्रियादिजातिमार्ग 'मन्दः' अज्ञः, संसारे परिभ्रमतीति सूत्रार्थः
AMOSAMADHAN
en Education in
For Private
Personal Use Only