________________
दशवैका ० हारि-वृत्तिः
॥ २४४ ॥
Jain Education
॥ ४ ॥ अत्रैव दृष्टान्तदाष्टन्तिकयोर्महदन्तरमित्येतदाह - 'आसि'त्ति सूत्रं, 'आशीविषश्चापि' सर्पोऽपि परं 'सुरुष्टः' सुक्रुद्धः सन् किं 'जीवितनाशात्' मृत्योः परं कुर्यात्, न किंचिदपीत्यर्थः, आचार्यपादाः पुनः 'अप्रसन्ना' हीलनयाऽननुग्रह प्रवृत्ताः, किं कुर्वन्तीत्याह - 'अबोध' निमित्तहेतुत्वेन मिध्यात्वसंहति, तदाशातनया मिथ्यात्वबन्धात्, यतश्चैवमत आशातनया गुरोर्नास्ति मोक्ष इति, अबोधिसंतानानुबन्धेनानन्तसं| सारिकत्वादिति सूत्रार्थः ॥ ५ ॥ किं च- 'जो पावगं'ति सूत्रं यः 'पावकम्' अग्निं ज्वलितं सन्तम् 'अपक्रा मेद्' अवष्टभ्य तिष्ठति, 'आशीविषं वापि हि' भुजङ्गमं वापि हि 'कोपयेत्' रोषं ग्राहयेत्, यो वा विषं खादति 'जीवितार्थी' जीवितुकामः, 'एषोपमा' अपायप्राप्तिं प्रत्येतदुपमानम्, आशातनया कृतया गुरूणां संबन्धिन्या तद्वदपायो भवतीति सूत्रार्थः ॥ ६ ॥ अत्र विशेषमाहू - 'सिआ हु'त्ति सूत्रं, 'स्यात्' कदाचिन्मन्त्रादिप्रतिबन्धादसौ 'पावकः' अग्निः 'न दहेत्' न भस्मसात्कुर्यात्, 'आशीविषो वा' भुजङ्गो वा कुपितो 'न भक्षयेत्' न खादयेत्, तथा 'स्यात् कदाचिन्मन्त्रादिप्रतिबन्धादेव विषं 'हालाहलम्' अतिरौद्रं 'न मारयेत्' न प्राणांस्त्याजयेत्, एवमेतत्कदाचिद्भवति न चापि मोक्षो 'गुरुहीलनया' गुरोराशातनया कृतया भवतीति सूत्रार्थः ॥ ७ ॥ किंच - 'जो पव्वयं'ति सूत्रं यः पर्वतं 'शिरसा' उत्तमाङ्गेन भेत्तुमिच्छेत्, सुप्तं वा सिंहं गिरिगुहायां प्रतिबोधयेत्, यो वा ददाति 'शक्त्यग्रे' प्रहरणविशेषाग्रे प्रहारं हस्तेन, एषोपमाऽऽशातनया गुरुणामिति पूर्ववदेवेति सूत्रार्थः ॥ ८ ॥ अत्र विशेषमाह - 'सिआ हु'त्ति सूत्रं, 'स्यात्' कदाचित्कश्चिद्वासु
For Private & Personal Use Only
९ विनय
समाध्य
ध्ययनम् १ उद्देशः
।। २४४ ॥
w.jainelibrary.org