SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ दशवैका ० हारि-वृत्तिः ॥ २४२ ॥ तुलारोपित पलशतादिवत्स्वस्थाने तद् द्रव्यं समाधिरिति । उक्तो द्रव्यसमाधिः, भावसमाधिमाह - 'भावसमाधिः प्रशस्त भावाविरोधलक्षणञ्चतुर्विधः, चातुर्विध्यमेवाह - दर्शनज्ञानतपश्चारित्रेषु । एतद्विषयो दर्शना| दीनां व्यस्तानां समस्तानां वा सर्वथाऽविरोध इति गाथार्थः ॥ उक्तः समाधिः, तदभिधानान्नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चः पूर्ववत् तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम् थंभा व कोहा व मयप्पमाया, गुरुस्सगासे विणयं न सिक्खे । सो चेव उ तस्स अभूइभावो, फलं व कीअस्स वहाय होइ ॥ १ ॥ 'थंभा व'त्ति, अस्य व्याख्या- 'स्तम्भाद्वा' मानाद्वा जात्यादिनिमित्तात् 'क्रोधाद्वा' अक्षान्तिलक्षणात् 'मायाप्रमादा' दिति मायातो - निकृतिरूपायाः प्रमादाद्- निद्रादेः सकाशात् किमित्याह - 'गुरोः सकाशे' आचार्यादेः समीपे 'विनयम्' आसेवनाशिक्षा भेदभिन्नं 'न शिक्षते' नोपादत्ते, तत्र स्तम्भात्कथमहं जात्या - दिमान् जात्यादिहीन सकाशे शिक्षामीति, एवं क्रोधात्कचिद्वितथकरणचोदितो रोषाद्वा, मायातः शूलं मे क्रियत इत्यादिव्याजेन, प्रमादात्प्रक्रान्तोचितमनवबुद्ध्यमानो निद्रादिव्यासङ्गेन, स्तम्भादिक्रमोपन्यासश्चेत्थमेवामीषां विनयविघ्नहेतुतामाश्रित्य प्राधान्यख्यापनार्थः । तदेवं स्तम्भादिभ्यो गुरोः सकाशे विनयं न शि Jain Education International For Private & Personal Use Only ९ विनय समाध्यध्ययनम् १ उद्देशः ॥ २४२ ॥ www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy