________________
A
NSACSMSSSSSECSUS
भवत्येवेति गाथार्थः॥ उपसंहरन्नाह-एषः' अनन्तरोदितो 'भे भवतां परिकथितो विनयः प्रतिरूपलक्षणः 'त्रिविधः' कायिकादिः 'द्विपञ्चाशद्विधिविधानम् एतावत्प्रभेदमित्यर्थः 'ब्रुवते' अभिदधति तीर्थकरा 'अनाशातनाविनयं वक्ष्यमाणमिति गाथार्थः ॥ एतदेवाह-तीर्थकरसिद्धकुलगणसङ्घक्रियाधर्मज्ञानज्ञानिनां तथा आचार्यस्थविरोपाध्यायगणिनां संबन्धीनि त्रयोदश पदानि, अत्र तीर्थकरसिद्धौ प्रसिद्धौ, कुलं नागेन्द्रकुलादि, गणः कोटिकादिः, सङ्घः प्रतीतः, क्रियाऽस्तिवादरूपा, धर्मः श्रुतधर्मादिः, ज्ञानं मत्यादि, ज्ञानिनस्त-18 है द्वन्तः, आचार्यः प्रतीतः, स्थविरः सीदतां स्थिरीकरणहेतुः, उपाध्यायः प्रतीतः, गणाधिपतिर्गणिरिति
गाथार्थः ॥ एतानि त्रयोदश पदानि अनाशातनादिभिश्चतुर्भिर्गुणितानि द्विपञ्चाशद्भवन्तीत्याह-अनाशातना च तीर्थकरादीनां सर्वथा अहीलनेत्यर्थः, तथा भक्तिस्तेष्वेवोचितोपचाररूपा, तथा बहुमानस्तेष्वेवान्तरभावप्रतिबन्धरूपः, तथा च वर्णसंज्वलना-तीर्थकरादीनामेव सद्भूतगुणोत्कीर्तना । एवमनेन प्रकारेण तीर्थकरादयस्त्रयोदश चतुर्गुणा अनाशातनाद्युपाधिभेदेन भवन्ति द्विपञ्चाशद्भेदा इति गाथार्थः ॥ उक्तो विनयः, साम्प्रतं समाधिरुच्यते, तत्रापि नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यादिसमाधिमाह
दव्वं जेण व दव्वेण समाही आहि च जं दव्वं । भावसमाहि चउव्विह दंसणनाणे तवचरित्ते ॥ ३२७ ॥ व्याख्या-'द्रव्य'मिति द्रव्यमेव समाधिः द्रव्यसमाधिः यथा मात्रकम् अविरोधि वा क्षीरगुडादि तथा येन वा द्रव्येणोपयुक्तेन समाधिस्त्रिफलादिना तद् द्रव्यसमाधिरिति । तथा आहितं वा यद्रव्यं समतां करोति
ACADARASAKARAN
Jain Education inar
For Private & Personel Use Only
Marjainelibrary.org