SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ दशवैका ० हारि-वृत्तिः ॥ २४१ ॥ Jain Education Inter कायिकमाह - अभ्युत्थानमर्हस्य, अञ्जलिः प्रश्नादौ, आसनदानं पीठकाद्युपनयनम्, अभिग्रहो गुरुनियोगकरणाभिसंधिः, 'कृतिचे 'ति कृतिकर्म वन्दनमित्यर्थः, 'शुश्रूषणं' विधिवद्दूरासन्नतया सेवनं, 'अनुगमनम्' आगच्छतः प्रत्युद्गमनं, 'संसाधनं च' गच्छतोऽनुव्रजनं चाष्टविधः कायविनय इति गाथार्थः ॥ वागादिविनयमाह - 'हितमितापरुषवा' गिति हितवाक-हितं वक्ति परिणामसुन्दरं, मितबाग- मितं स्तोकैरक्षरैः, अपरुषवागपरुषम् - अनिष्ठुरं, तथा 'अनुविचिन्त्यभाषी' खालोचितवत्क्तेति वाचिको विनयः । तथा अकुशलमनोनिरोधः आर्तध्यानादिप्रतिषेधेन, कुशलमनउदीरणं चैव धर्मध्यानादिप्रवृत्त्येति मानस इति गाथार्थः ॥ आह- किमर्थमयं प्रतिरूपविनयः ?, कस्य चैष इति ?, उच्यते डिवो खलु विणओ पराणुअत्तिमइओ मुणेअव्वो । अप्पडिरूवो विणओ नायव्वो केवलीणं तु ।। ३२३ ॥ एसो भे परिकहिओ विणओ पडिरूवलक्खणो तिविहो । बावन्नविहिविहाणं बेंति अणासायणाविणयं ॥ ३२४ ॥ तित्थगरसिद्धकुलगणसंघकियाधम्मनाणनाणीणं । आयरिअथेरओज्झागणीणं तेरस पयाणि ।। ३२५ ।। अणसायणा य भत्ती बहुमाणो तहय वन्नसंजलणा । तित्थगराई तेरस चउग्गुणा होंति बावन्ना ॥ ३२६ ॥ व्याख्या- 'प्रतिरूप : ' उचितः खलु विनयः 'परानुवृत्त्यात्मकः' तत्तद्वस्त्वपेक्षया प्राय आत्मव्यतिरिक्तप्रधानानुवृत्त्यात्मको मन्तव्यः । अयं च बाहुल्येन छद्मस्थानां । तथा 'अप्रतिरूपो विनयः' अपरानुवृत्त्यात्मकः, स च ज्ञातव्यः केवलिनामेव, तेषां तेनैव प्रकारेण कर्मविनयनात् तेषामपीत्वरः प्रतिरूपोऽज्ञातकेवल भावानां For Private & Personal Use Only ९ विनय समाध्य ध्ययनम् १ उद्देशः ॥ २४१ ॥ jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy