________________
दश० ४१
Jain Education Int
व्यासार्थे दर्शनविनयमाह - 'द्रव्याणां धर्मास्तिकायादीनां 'सर्वभावाः' सर्व पर्यायाः 'उपदिष्टाः कथिता 'ये' अगुरुलध्वादयो 'यथा' येन प्रकारेण 'जिनवरैः' तीर्थकरैः 'तान्' भावान् 'तथा' तेन प्रकारेण श्रद्धत्ते नरः, श्रद्दधानश्च कर्म विनयति यस्माद्दर्शनविनयो भवति तस्माद्, दर्शनाद्विनयो दर्शनविनय इति गाथार्थः ॥ | ज्ञानविनयमाह - 'ज्ञानं शिक्षति' अपूर्व ज्ञानमादत्ते, 'ज्ञानं गुणयति' गृहीतं सत्प्रत्यावर्त्तयति, ज्ञानेन करोति 'कृत्यानि संयमकृत्यानि, एवं ज्ञानी नवं कर्म न बध्नाति प्राक्तनं च विनयति यस्मात् 'ज्ञानविनीतो' ज्ञानेनापनीतकर्मा भवति तस्मादिति गाथार्थः ॥ चारित्रविनयमाह - 'अष्टविधम्' अष्टप्रकारं 'कर्मचयं' कर्मसंघातं प्रागबद्धं यस्माद् 'रिक्तं करोति' तुच्छतापादनेनापनयति 'यतमानः' क्रियायां यत्नपरः तथा नवमन्यं च कर्मचयं न बध्नाति यस्मात् 'चारित्रविनय' इति चारित्राद्विनयश्चारित्रविनयः चारित्रेण विनीतकर्मा भवति तस्मादिति गाथार्थः ॥ तपोविनयमाह - अपनयति तपसा 'तमः' अज्ञानम् उपनयति च स्वर्ग मोक्षम् 'आत्मानं' जीवं तपोविनयनिश्चयमतिः यस्मादेवंविधस्तपोविनीतो भवति तस्मादिति गाथार्थः ॥ उपचारविनयमाह - अथौपचारिकः पुनर्द्विविधो विनयः समासतो भवति, द्वैविध्यमेवाह-प्रतिरूपयोग योजनं तथाऽनाशातनाविनय इति गाथासमासार्थः ॥ व्यासार्थमाह - 'प्रतिरूपः' उचितः खलु विनयस्त्रिविधः, 'काययोगे च वाचि मानसः' कायिको वाचिको मानसश्च, अष्टचतुर्विधद्विविधः, कायिकोऽष्टविधः वाचिकचतुर्विधः मानसो द्विविधः । प्ररूपणा तस्य कायिकाष्टविधादेरियं भवति वक्ष्यमाणलक्षणेति गाथार्थः ॥
For Private & Personal Use Only
jainelibrary.org