SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ दशवैका ० हारि-वृत्तिः ॥ २३९ ॥ Jain Education In अथ नवमं विनयसमाधिनामाध्ययनं प्रारभ्यते ॥ अधुना विनयसमाध्याख्यमारभ्यते, अस्य चायमभिसंबन्धः - इहानन्तराध्ययने निरवद्यं वच आचारे प्रणिहितस्य भवतीति तत्र यत्नवता भवितव्यमित्येतदुक्तम्, इह त्वाचारप्रणिहितो यथोचितविनयसंपन्न एव भवतीत्येतदुच्यते, उक्तं च- “आयारपणिहाणंमि, से सम्मं वट्टई बुहे । णाणादीण विणीए जे, मोक्खट्ठा निव्विगच्छ ॥ १ ॥" इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र च विनयसमाधिरिति द्विपदं नाम, तन्निक्षेपायाह विणयस्स समाहीए निक्खेवो होइ दोण्हवि चउक्को । दव्वविणयंमि तिणिसो सुवण्णमिच्चैवमाईणि ॥ ३०९ ॥ व्याख्या-'विनयस्य' प्रसिद्धत्तत्त्वस्य 'समाधेश्च' प्रसिद्धतत्त्वस्यैव निक्षेपो-न्यासो भवति द्वयोरपि चतुष्को नामादिभेदात्, तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यविनयमाह-द्रव्यविनये ज्ञशरीर भव्यशरीरव्यतिरिक्ते 'तिनिशो' वृक्षविशेष उदाहरणं, स रथाङ्गादिषु यत्र यत्र यथा यथा विनीयते तत्र तत्र तथा तथा परिण मति, योग्यत्वादिति । तथा सुवर्णमित्यादीनि कटककुण्डलादिप्रकारेण विनयनाद् द्रव्याणि द्रव्यविनयः, आदिशब्दात्तत्तद्योग्यरूप्यादिपरिग्रह इति गाथार्थः ॥ साम्प्रतं भावविनयमाह - १ आचारप्रणिधाने स सम्यग्वर्त्तते बुधः । ज्ञानादिषु विनीतो यो मोक्षार्थे निर्विचिकित्सकः ॥ १ ॥ For Private & Personal Use Only ९ विनय समाध्य ध्ययनम् विनय भेदाः २ उद्देशः ॥ २३९ ॥ ainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy