________________
Jain Education
'अकिञ्चनो' द्रव्यभावकिञ्चनरहितः 'विराजते' शोभते, 'कर्मघने' ज्ञानावरणीयादिकर्ममेघे अपगते सति, निदर्शनमाह - ' कृत्लाभ्रपुटापगम इव चन्द्रमा इति' यथा कृत्स्ने कृष्णे वा अभ्रपुढे अपगते सति चन्द्रो | विराजते शरदि तद्वदसावपेतकर्मघनः समासादित केवलालोको विराजत इति सूत्रार्थः ॥ ६४ ॥ ब्रवीमीति पूर्ववत्, उक्तोऽनुगमः, साम्प्रतं नयाः, ते च पूर्ववदेव । व्याख्यातमाचारप्रणिध्यध्ययनम् ॥ ८ ॥
इति श्रीहरिभद्रसूरिविरचितायां दशवैकालिक वृहद्वृत्तावष्टमाध्ययनम्
संपूर्णम् ॥ ८ ॥
For Private & Personal Use Only
jainelibrary.org