SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ आचारप्रणिध्यध्ययनम् २ उद्देश: दशवैका०स्थान' प्रव्रज्यारूपम् 'उत्तम प्रधान प्राप्त इत्यर्थः, तामेव श्रद्धामप्रतिपतिततया प्रवर्द्धमानामनुपालयद्यत्नेन, हारि-वृत्तिः क इत्याह-गुणेषु मूलगुणादिलक्षणेषु, 'आचार्यसंमतेषु तीर्थकरादिबहुमतेषु, अन्ये तु श्रद्धाविशेषणमेत दिति व्याचक्षते, तामेव श्रद्धामनुपालयेद्गुणेषु, किंभूताम् ?-आचार्यसंमतां, न तु स्वाग्रहकलङ्कितामिति सू॥२३८॥ त्रार्थः ॥ ६१॥ आचारप्रणिधिफलमाह-तवं चिमति सूत्रं, तपश्चेदम्-अनशनादिरूपं साधुलोकप्रतीत 'संयमयोगं च पृथिव्यादिविषयं संयमव्यापारं च 'खाध्याययोगं च' वाचनादिव्यापारं 'सदा सर्वकालम् 'अधिष्ठाता' तपःप्रभृतीनां कर्तेत्यर्थः, इह च तपोऽभिधानात्तद्रहणेऽपि स्वाध्याययोगस्य प्राधान्यख्यापनार्थ भेदेनाभिधानमिति । 'स' एवंभूतः 'शूर इव' विक्रान्तभट इव 'सेनया' चतुरङ्गरूपया इन्द्रियकषायादिरूपया निरुद्धः सन् 'समाप्तायुधः' संपूर्णतपःप्रभृतिखड्गाद्यायुधः 'अलम्' अत्यर्थमात्मनो भवति संरक्षणाय अलं च परेषां निराकरणायेति सूत्रार्थः ॥ ६२॥ एतदेव स्पष्टयन्नाह-सज्झाय'त्ति सूत्र, स्वाध्याय एव सद्ध्यानं खाद्ध्यायसद्ध्यानं तत्र रतस्य-सक्तस्य 'त्रातुः' स्वपरोभयत्राणशीलस्य 'अपापभावस्य लब्ध्याद्यपेक्षारहिततया शुद्धचित्तस्य 'तपसि' अनशनादौ यथाशक्ति रतस्य 'विशुद्ध्यते' अपैति यदू 'अस्य साधोः 'मलं' कर्ममलं 'पुराकृतं' जन्मान्तरोपातं, दृष्टान्तमाह-समीरितं' प्रेरितं रूप्यमलमिव 'ज्योतिषा' अग्निनेति सूत्रार्थः ॥ ६३ ॥ ततः-से तारिसे'त्ति सूत्रं, 'स तादृशः' अनन्तरोदितगुणयुक्तः साधुः 'दुःखसहः परीषहजेता 'जितेन्द्रियः' पराजितश्रोत्रेन्द्रियादिः 'श्रुतेन युक्तो विद्यावानित्यर्थः 'अममः' सर्वत्र ममत्वरहितः ॥२३८॥ Jain Education in Blanes For Private & Personel Use Only Mainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy