________________
दशवैका० हारि-वृत्तिः
र आचार| प्रणिध्यध्ययनम् २ उद्देशः
॥२३७॥
क
सामपि वर्षशतिकां नारीम्, एवंविधामपि किमङ्ग पुनस्तरुणी?, तां तु सुतरामेव, 'ब्रह्मचारी' चारित्रधनो महाधन इव तस्करान् विवर्जयेदिति सूत्रार्थः॥५६॥ अपिच–'विभूस'त्ति सूत्रं, 'विभूषा वस्त्रादिराढा 'स्त्रीसंसर्गः' येन केनचित्प्रकारेण स्त्रीसंबन्धः 'प्रणीतरसभोजनं गलत्स्लेहरसाभ्यवहारः, एतत्सर्वमेव विभूषादि नरस्य 'आत्मगवेषिण' आत्महितान्वेषणपरस्य 'विषं तालपुटं यथा तालमात्रव्यापत्तिकरविषकल्पमहितमिति सूत्रार्थः ॥ ५७॥ 'अंग'त्ति सूत्रं, 'अङ्गप्रत्यङ्गसंस्थानमिति अङ्गानि-शिरःप्रभृतीनि प्रत्यङ्गानि-नयनादीनि एतेषां संस्थान-विन्यासविशेष, तथा चारु-शोभनं 'लपितप्रेक्षितं' लपितं-जल्पित्तं प्रेक्षित-निरी|क्षितं स्त्रीणां संबन्धि, तदङ्गप्रत्यङ्गसंस्थानादि 'न निरीक्षेत न पश्येत्, किमित्यत आह-कामरागविवर्द्धन|मिति, एतद्धि निरीक्ष्यमाणं मोहदोषात् मैथुनाभिलाषं वर्द्धयति, अत एवास्य प्राक् स्त्रीणां निरीक्षणप्रतिषेधाद्गतार्थतायामपि प्राधान्यख्यापनार्थों भेदेनोपन्यास इति सूत्रार्थः॥५८ ॥ किं च-विसएसुत्ति सूत्रं, 'विषयेषु' शब्दादिषु 'मनोज्ञेषु' इन्द्रियानुकूलेषु 'प्रेम' रागं 'नाभिनिवेशयेत् न कुर्यात्, एवममनोज्ञेषु द्वेषम् , आह-उक्तमेवेदं प्राक् 'कण्णसोक्खेही'त्यादौ किमर्थं पुनरुपन्यास इति?, उच्यते, कारणविशेषाभिधानेन विशेषोपलम्भार्थमिति, आह च-'अनित्यमेव परिणामानित्यतया 'तेषां पुद्गलानां, तुशब्दाच्छब्दादिविषयसंबन्धिनामिति योगः, 'विज्ञाय' अवेत्य जिनवचनानुसारेण, किमित्याह-'परिणाम पर्यायान्तरापत्तिलक्षणं, ते हि मनोज्ञा अपि सन्तो विषयाः क्षणादमनोज्ञतया परिणमन्ति अमनोज्ञा अपि मनोज्ञतया
र
.
॥२३७॥
...
For Private & Personal Use Only