________________
दश० ४०
Jain Education Inte
॥ ४९ ॥ आयारपन्नत्तिधरं दिट्टिवायमहिज्जगं । वायविक्खलिअं नच्चा, न तं उवहसे मुणी ॥ ५० ॥
तएवमतः कषायनिग्रहार्थमिदं कुर्यादित्याह - 'रायणिए 'त्ति, 'रत्नाधिकेषु' चिरदीक्षितादिषु 'विनयम्' अभ्युत्थानादिरूपं प्रयुञ्जीत, तथा 'ध्रुवशीलताम्' अष्टादशशीलाङ्गसहस्रपालनरूपां 'सततम्' अनवरतं यथाशक्त्या (क्ति) न हापयेत्, तथा 'कूर्म इव' कच्छप इवालीनप्रलीनगुप्तः अङ्गोपाङ्गानि सम्यक् संयम्येत्यर्थः, 'पराक्रमेत' प्रवर्त्तेत 'तपःसंयमे' तपःप्रधाने संयम इति सूत्रार्थः ॥ ४१ ॥ किंच- 'निदं च'ति सूत्रं, 'निद्रां वन बहु मन्येत' न प्रकामशायी स्यात् । 'सप्रहासं च' अतीवहासरूपं विवर्जयेत्, 'मिथःकथासु' राहस्थिकीषु नं रमेत, 'स्वाध्याये' वांचनादौ रतः सदा, एवंभूतो भवेदिति सूत्रार्थः ॥ ४२ ॥ तथा - 'जोगं च'त्ति सूत्रं, 'योगं च' त्रिविधं मनोवाक्कायव्यापारं 'श्रमणधर्मे' क्षान्त्यादिलक्षणे युञ्जीत 'अनलसः' उत्साहवान्, 'ध्रुव' कालाद्यौचित्येन नित्यं संपूर्ण सर्वत्र प्रधानोपसर्जनभावेन वा, अनुप्रेक्षाकाले मनोयोगमध्ययनकाले वाग्योगं प्रत्युपेक्षणाकाले काययोगमिति । फलमाह – 'युक्त' एवं व्याष्टतः श्रमणधर्मे दशविधेऽर्थं 'लभते' प्राप्नोत्यनुत्तरं भावार्थ ज्ञानादिरूपमिति सूत्रार्थः ॥ ४३ ॥ एतदेवाह - 'इहलोग'ति सूत्रं, 'इहलोकपरत्रहितम्' इहाकुशलप्रवृत्तिदुःखनिरोधेन परत्र कुशलानुबन्धत उभयलोकहितमित्यर्थः, 'येन' अर्थेन ज्ञानादिना
For Private & Personal Use Only
jainelibrary.org