SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Jain Education Int *6**** वकारार्थः, स चावधारणे, सावद्य एव, कः ? – 'कुतीर्थिकधर्मः' चरकपरिव्राजकादिधर्म इत्यर्थः, कुत एतदित्याह -न 'जिनैः' अर्हद्भिः तुशब्दादन्यैश्च प्रेक्षापूर्वकारिभिः प्रशंसितः' स्तुतः, सारम्भपरिग्रहत्वात्, अत्र बहु वक्तव्यम्, तत्तु नोच्यते, गमनिकामात्र फलत्वात् प्रस्तुतव्यापारस्येति गाथार्थः ॥ उक्तः कुप्रावचनिकः, साम्प्रतं लोकोत्तरं प्रतिपादयन्नाह - fast लोगुत्तरओ अधम्मो खलु चरित्तधम्मो अ । सुअधम्मो सज्झाओ चरित्तधम्मो समणधम्मो ॥ ४३ ॥ व्याख्या - द्विविधो- द्विप्रकारो 'लोकोत्तरो' लोकप्रधानो, धर्म इति वर्त्तते, तथा चाह - श्रुतधर्मः खलु चारित्रधर्मश्व, तत्र श्रुतं द्वादशाङ्गं तस्य धर्मः श्रुतधर्मः, खलुशब्दो विशेषणार्थः, किं विशिनष्टि ? - स हि वाचनादिभेदाचित्र इति, आह च श्रुतधर्मः खाध्यायः - वाचनादिरूपः, तत्त्वचिन्तायां धर्महेतुत्वाद्धर्म इति । तथा चारिधर्मश्च तत्र “चर गतिभक्षणयोः" इत्यस्य "अर्त्तिलूधूसुख नसहचर इत्रन् ” ( पा० ३-२-१८४ ) इतीत्रन्प्रत्ययान्तस्य चरित्रमिति भवति, चरन्त्यनिन्दितमनेनेति चरित्रं क्षयोपशमरूपं तस्य भावश्चारित्रम्, अशेषकर्मक्षयाय चेष्टेत्यर्थः, ततश्चारित्रमेव धर्मः चारित्रधर्म इति । चः समुच्चये । अयं च श्रमणधर्म एवेत्याह- चारित्रधर्मः श्रमणधर्म इति, तत्र श्राम्यतीति श्रमणः “कृत्यल्युटो बहुलम् " ( पा० ३-३ - ११३ ) इति वचनात् कर्त्तरि ल्युट् श्राम्यतीति-तपस्यतीति, एतदुक्तं भवति-प्रव्रज्यादिवसादारभ्य सकलसावद्ययोगविरतौ गुरूपदेशाद १ प्रयासस्येति प्र० For Private & Personal Use Only ainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy