________________
दशवैका ० हारि-वृत्तिः
॥ २२ ॥
Jain Education
इति, आह च-लौकिकः कुप्रावृचनिकः लोकोत्तरस्तु, अत्र 'लोगोऽणेगविहो' त्ति लौकिकोऽनेकविध इति गाधार्थः ॥ तदेवानेकविधत्वमुपदर्शयन्नाह
गम्मपसुदेसरज्जे पुरवरगामगणगोट्ठिराईणं । सावज्जो उ कुतित्थियधम्मो न जिणेहि उपसत्थो ॥ ४२ ॥
व्याख्या - तत्र गम्यधर्मो - यथा दक्षिणापथे मातुलदुहिता गम्या उत्तरापथे पुनरगम्यैव, एवं भक्ष्याभक्ष्यपेयापेयविभाषा कर्त्तव्येति, पशुधर्मो - मात्रादिगमनलक्षणः, देशधर्मो देशाचारः, स च प्रतिनियत एव नेपध्यादिलिङ्गभेद इति, राज्यधर्मः -प्रतिराज्यं भिन्नः, स च करादिः, पुरवरधर्म:- प्रतिपुरवरं भिन्नः कचित्कि ञ्चिद्विशिष्टोऽपि पौरभाषाप्रदानादिलक्षणः सद्वितीया योषिहान्तरं गच्छतीत्यादिलक्षणो वा, ग्रामधर्मःप्रतिग्रामं भिन्नः, गणधर्मो - मल्लादिगणव्यवस्था, यथा समपादपातेन विषमग्रह इत्यादि, गोष्ठीधम्र्मो-गोष्ठीव्यवस्था, इह च समवयसां समुदायो गोष्ठी, तद्व्यवस्था पुनर्वसन्तादाविदं कर्त्तव्यमित्यादिलक्षणा, राजधर्मो- दुष्टेतरनिग्रहपरिपालनादिरिति । भावधर्मता चास्य गम्यादीनां विवक्षया भावरूपत्वात् द्रव्यपर्यायत्वाद्वा, तस्यैव च द्रव्यानपेक्षस्य विवक्षितत्वात्, लौकिकैर्वा भावधर्मत्वेनेष्टत्वात्, देशराज्यादिभेदश्चैकदेश एवानेकराज्यसम्भव इत्येवं स्वधिया भाव्यम् इत्युक्तो लौकिकः, कुप्रावचनिक उच्यते-असावपि सावद्यप्रायो लौकिककल्प एव, यत आह - "सावज्जो उ" इत्यादि, अवद्यं पापं सहावद्येन सावद्यं, तुशब्दस्त्वे१ पिबंति समवाणं इति चूर्णिः २ अत्तर्णेऽवि अवराहे ण खामिज्जइ चू०
For Private & Personal Use Only
१ द्रुमपुष्पिका०
धर्मनिक्षेपः
॥ २२ ॥
ainelibrary.org