SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ धर्मधर्मिणोः कथञ्चिदभेदाद द्रव्यधर्ममाह, तथास्तिकाय इत्यनेन तु सूचनात् सूत्रमितिकृत्वा उपलक्षणत्वादवयव एव समुदायशब्दोपचारादस्तिकायधर्म इति, प्रचारधर्मश्चेत्यनेन ग्रन्थेन द्रव्यधर्मदेशमाह । भावधर्मश्चेत्यनेन तु भावधर्मस्य खरूपमाह ॥ साम्प्रतं प्रथमोद्दिष्टद्रव्यधर्मखरूपाभिधित्सयाऽऽह-द्रव्यस्य पर्याया-ये उत्पादविगमादयस्ते धर्मास्तस्य द्रव्यस्य, ततश्च द्रव्यस्य धर्मा द्रव्यधर्मा इत्यन्यासंसक्तैकद्रव्यधर्माभावप्रदर्शनार्थी बहुवचननिर्देश इति गाथार्थः । इदानीमस्तिकायादिधर्मखरूपप्रतिपिपादयिषयाऽऽह धम्मत्थिकायधम्मो पयारधम्मो य विसयधम्मो य । लोइयकुप्पावयणिअ लोगुत्तर लोगऽणेगविहो ॥ ४१ ॥ व्याख्या-धर्मग्रहणाद् धर्मास्तिकायपरिग्रहः, ततश्च धर्मास्तिकाय एव गत्युपष्टम्भकोऽसंख्येयप्रदेशात्मकः अस्तिकायधर्म इति । अन्ये तु व्याचक्षते-धर्मास्तिकीयादिखभावोऽस्तिकायधर्म इति, एतच्चायुक्तम्, तत्र ध आस्तिकायादीनां द्रव्यत्वेन तस्य द्रव्यधर्माव्यतिरेकादिति । तथा प्रचारधर्मश्च विषयधर्म एव, तुशब्दस्यैवकारार्थत्वात्, तत्र प्रचरणं प्रचारः, प्रकर्षगमनमित्यर्थः, स एवात्मस्वभावत्वाद्धर्मः प्रचारधर्मः, स च किम् ?विषीदन्त्येतेषु प्राणिन इति विषया-रूपादयस्तद्धर्म एव, तथा च वस्तुतो विषयधर्म एवायं यद्रागादिमान् सत्त्वस्तेषु प्रवर्तत इति, चक्षुरादीन्द्रियवशतो रूपादिषु प्रवृत्तिः प्रचारधर्म इति हृदयम्, प्रधानसंसारनिवन्धनत्वेन चास्य प्राधान्यख्यापनार्थ द्रव्यधर्मात् पृथगुपन्यासः । इदानी भावधर्मः, स च लौकिकादिभेदभिन्न १ तेसि पंचण्हवि धम्मो णाम सम्भावो लक्खणंति एगट्ठा इति चूर्णिः. २ जो जस्स इंदिअस्स विसओ इति चूर्णिः. SECREEMAILS Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy