________________
पत्रादीनि न हीयन्ते तावदा मानं च मायां च लोभ दीन हितमिच्छन्नात्मनः
निलक्षणा यावन्न पीडयति 'व्याधिः' क्रियासामर्थ्यशत्रुर्यावन्न वर्द्धते यावद् 'इन्द्रियाणि' क्रियासामोपकारीणि श्रोत्रादीनि न हीयन्ते तावदत्रान्तरे प्रस्ताव इतिकृत्वा धर्म समाचरेचारित्रधर्ममिति सूत्रार्थः ॥३५॥ ॥३६॥ तदुपायमाह-कोहं' गाहा, क्रोधं मानं च मायां च लोभं च पापवर्धनं, सर्व एते पापहेतव इति पापवर्द्धनव्यपदेशः, यतश्चैवमतो वमेच्चतुरो 'दोषान्' एतानेव क्रोधादीन् हितमिच्छन्नात्मनः, एतद्वमने हि सर्वसंपदिति सूत्रार्थः ॥ ३७॥ अवमने विहलोक एवापायमाह-कोह'त्ति सूत्रं, क्रोधः प्रीतिं प्रणाशयति, क्रोधान्धवचनतस्तदुच्छेददर्शनात्, मानो विनयनाशनः, अवलेपेन मूर्खतया तदकरणोपलब्धेः, माया मि-| त्राणि नाशयति, कौटिल्यवतस्तत्त्यागदर्शनात्, लोभः सर्वविनाशन, तत्त्वतस्त्रयाणामपि तद्भावभावित्वादिति सूत्रार्थः ॥ ३८॥ यत एवमतः–'उवसमेण त्ति सूत्रं, 'उपशमेन' शान्तिरूपेण हन्यात् क्रोधम्, उदयनिरोधोदयप्राप्ताफलीकरणेन, एवं मानं मार्दवेन-अनुच्छ्रिततया जयेत् उदयनिरोधादिनैव, मायां च ऋजुभावेन-अशठतया जयेत् उदयनिरोधादिनैव, एवं लोभं 'संतोषतः' निःस्पृहत्वेन जयेत्, उदयनिरोधोदयप्राप्ताफलीकरणेनेति सूत्रार्थः ॥ ३९॥ क्रोधादीनामेव परलोकापायमाह-कोहोत्ति सूत्रं, क्रोधश्च मानश्चानिगृहीती-उच्छृङ्खलौ,माया च लोभश्च विवर्धमानौ च' वृद्धिं गच्छन्ती, 'चत्वार' एते क्रोधादयः 'कृत्ला' संपूर्णाः 'कृष्णा वा' क्लिष्टाः कषायाः सिञ्चन्ति अशुभभावजलेन मूलानि तथाविधकर्मरूपाणि 'पुनर्भवस्य पुनर्जन्मतरोरिति सूत्रार्थः ॥४०॥
AGRARIS
सर्वविनाशानरोधात
****
Jain Education
For Private Personal use only
ma.jainelibrary.org