________________
दशवैका ० हारि-वृत्तिः
॥ २२५ ॥
15646
व्याख्या - यथैष 'शब्देषु' शब्दविषयः श्रोत्रेन्द्रियमधिकृत्य दोष उक्तः, एष एव क्रमः 'शेषैरपि' चक्षुरादिभिश्चतुर्भिरपीन्द्रियैर्दोषाभिधाने द्रष्टव्यः, तद्यथा - चक्खिन्दिअरस्सीहि उ, इत्यादि, अत एवाह - 'रूपे गन्धे रसे स्पर्शे' रूपादिविषय इति गाथार्थः ॥ अमुमेवार्थ दृष्टान्ताभिधानेनाह
जस्स खलु दुप्पणिहिआणि इंदिआई तवं चरंतस्स । सो हीरइ असहीणेहिं सारही वा तुरंगेहिं ॥ २९८ ॥
व्याख्या- 'यस्य खल्वि'ति यस्यापि दुष्प्रणिहितानीन्द्रियाणि विश्रोतोगामीनि 'तपश्चरत' इति तपोऽपि कुर्वतः स तथाभूतो 'हियते' अपनीयते इन्द्रियैरेव निर्वाणहेतोश्चरणात् दृष्टान्तमाह- 'अस्वाधीनैः' अस्ववशैः 'सारथिरिव' रथनेतेव 'तुरङ्गमैः' अश्वैरिति गाथार्थः ॥ उक्त इन्द्रियप्रणिधिः, नोइन्द्रियप्रणिधिमाह
कोहं माणं मायं लोहं च महत्भयाणि चत्तारि । जो रुंभइ सुद्धप्पा एसो नोइंदिअप्पणी ॥ २९९ ॥
व्याख्या - क्रोधं मानं मायां लोभं चेत्येतेषां स्वरूपमनन्तानुबन्ध्यादिभेदभिन्नं पूर्ववत् एत एव च महाभयानि चत्वारि, सम्यग्दर्शनादिप्रतिबन्धरूपत्वात् । एतानि यो रुणद्धि शुद्धात्मा उदयनिरोधादिना 'एष' निरोद्धा क्रोधादिनिरोधपरिणामानन्यत्वान्नोइन्द्रियप्रणिधिः, कुशलपरिणामत्वादिति गाथार्थः ॥ एतदनिरोधे दोषमाह -
जस्सवि अ दुप्पणिहिआ होंति कसाया तवं चरंतस्स । सो बालतवस्सीविव गयण्हाणपरिस्समं कुणइ ॥ ३०० ॥ १ आवश्यके विस्तरेण पूर्व व्याख्यानात्.
Jain Education International
For Private & Personal Use Only
८ आचारप्रणिध्य
ध्ययनम्
२ उद्देशः
॥ २२५ ॥
www.jainelibrary.org