________________
दब्वे निहाणमाई मायपउत्ताणि चेव दव्वाणि । भाविंदिअनोइंदिअ दुविहो उ पसत्थ अपसत्थो । २९४ ॥ व्याख्या-'द्रव्य' इति द्रव्यविषयः प्रणिधिः निधानादि प्रणिहितं निधानं निक्षिप्तमित्यर्थः, आदिशब्दः खभेदप्रख्यापकः, मायाप्रयुक्तानि चेह द्रव्याणि द्रव्यप्रणिधिः, पुरुषस्य स्त्रीवेषेण पलायनादिकरणं स्त्रियो वा ५ पुरुषवेषेणेत्यादि । तथा 'भाव' इति भावप्रणिधिर्द्विविधः-इन्द्रियप्रणिधिनॊइन्द्रियप्रणिधिश्च, तत्रेन्द्रियाणिधिर्द्विविधा-प्रशस्तोऽप्रशस्तश्चेति गाथार्थः ॥ प्रशस्तमिन्द्रियप्रणिधिमाह
सद्देसु अ रूवेसु अ गंधेसु रसेसु तह य फासेसु । नवि रज्जइ न वि दुस्सइ एसा खलु इंदिअप्पणिही ।। २९५ ॥ व्याख्या-शब्देषु च रूपेषु च गन्धेषु रसेषु तथा च स्पर्शेषु एतेष्विन्द्रियार्थेष्विष्टानिष्टेषु चक्षुरादिभिरिन्द्रियैर्नापि रज्यते नापि द्विष्यते एष खलु माध्यस्थ्यलक्षण इन्द्रियप्रणिधिः प्रशस्त इति भावार्थः, अन्यथा त्वप्रशस्तः, तत्र दोषमाह
सोइंदिअरस्सीहि उ मुक्काहिं सद्दमुच्छिओ जीवो । आइअइ अणाउत्तो सद्दगुणसमुट्ठिए दोसे ॥ २९६ ॥ व्याख्या-'श्रोत्रेन्द्रियरश्मिभिः' श्रोत्रेन्द्रियरजुभिः 'मुक्ताभिः' उच्छृङ्खलाभिः, किमित्याह-'शब्दमूछितः' शब्दगृद्धो जीवः 'आदत्ते' गृह्णात्यनुपयुक्तः सन् , कानित्याह-शब्दगुणसमुत्थितान् दोषान्-शब्द एवेन्द्रियगुणः तत्समुत्थितान् दोषान-बन्धवधादीन् श्रोत्रेन्द्रियरजभिरादत्त इति गाथार्थः ॥शेषेन्द्रियातिदेशमाह
जह एसो सद्देसु एसेव कमो उ सेसएहिं पि । चउहिंपि इंदिएहिं रूवे गंधे रसे फासे ॥ २९७ ॥
Jain Education
For Private Personal Use Only
TORjainelibrary.org