________________
व्याख्या-यस्यापि कस्यचिद्वयवहारतपखिनो दुष्प्रणिहिता-अनिरुद्धा भवन्ति 'कषायाः' क्रोधादयः 'तपश्वरतः तपः कुर्वत इत्यर्थः स बालतपस्खीव उपवासपारणकप्रभूततरारम्भको जीवो (यथा) गजलानपरिश्रम करोति, चतुर्थषष्ठादिनिमित्ताभिधानतःप्रभूतकर्मबन्धोपपत्तेरिति गाथार्थः ॥ अमुमेवार्थ स्पष्टतरमाह
सामन्नमणुचरंतस्स कसाया जस्स उक्कडा होति । मन्नामि उच्छुफुलं व निष्फलं तस्स सामन्नं ।। ३०१॥ व्याख्या-'श्रामण्यमनुचरतः' श्रमणभावमपि द्रव्यतः पालयत इत्यर्थः, कषाया यस्योत्कटा भवन्ति क्रोधादयः मन्ये इक्षुपुष्पमिव निष्फलं निर्जराफलमधिकृत्य तस्य श्रामण्यमिति गाथार्थः ॥ उपसंहरन्नाह
एसो दुविहो पणिही सुद्धो जइ दोसु तस्स तेसिं च । एत्तो पसत्थमपसत्थ लक्खणमझत्थनिएफनं ॥ ३०२ ॥ __ व्याख्या-'एषः' अनन्तरोदितो 'द्विविधः प्रणिधिः' इन्द्रियनोइन्द्रियलक्षणः 'शुद्ध' इति निर्दोषो भवति, यदि 'द्वयोः' बाह्याभ्यन्तरचेष्टयोः 'तस्य' इन्द्रियकषायवतः तेषां च' इन्द्रियकषायाणां सम्यग्योगो भवति, एतदुक्तं भवति-यदि बाह्यचेष्टायामभ्यन्तरचेष्टायां च तस्य च प्रणिधिमत इन्द्रियाणां कषायाणां च निग्रहो भवति ततः शुद्धः प्रणिधिरितरथा त्वशुद्धः, एवमपि तत्त्वनीत्याऽभ्यन्तरैव चेष्टेह गरीयसीत्याह, अत एवमपि तत्त्वे प्रशस्तं चारु, तथाऽप्रशस्तमचारु लक्षणं प्रणिधेः 'अध्यात्मनिष्पन्नम्' अध्यवसानोद्गतमिति गाथार्थः॥ एतदेवाह
मायागारवसहिओ इंदिअनोइंदिएहिं अपसत्थो । धम्मत्था अ पसत्थो इंदिअनोइंदिअप्पणिही ॥ ३०३ ॥
Join Education in
For Private & Personal Use Only
hainelibrary.org