________________
-"दुर्गतिप्रसृतान् जीवान्, यस्माद्धारयते ततः। धत्ते चैतान् शुभे स्थाने, तस्माद् धर्म इति स्मृतः॥१॥" मङ्गयते हितमनेनेति मङ्गलमित्यादि पूर्ववत्, 'उत्कृष्टं प्रधानम्, न हिंसा अहिंसा प्राणातिपातविरतिरित्यर्थः, 'संयमः' आश्रवद्वारोपरमः, तापयत्यनेकभवोपात्तमष्टप्रकारं कर्मेति तपः-अनशनादि, दीव्यन्तीति देवाः क्रीडन्तीत्यादि भावार्थः, अपिः सम्भावने देवा अपि मनुष्यास्तु सुतरां, 'तमित्येवंविशिष्टं जीवं, नमस्यन्तीति प्रकटार्थम् , यस्य जीवस्य किम् ?–'धर्मे प्रागभिहितवरूपे 'सदा सर्वकालं 'मन' इत्यन्तःकरणम् । अयं पदार्थ इति । पदविग्रहस्तु परस्परापेक्षसमासभाक्पदपूर्वकत्वेनेह निबन्धनाभावान्न प्रदर्शित इति । चालना-18 प्रत्यवस्थाने तु प्रमाणचिन्तायां यथावसरमुपरिष्टादु वक्ष्यामः। प्रवृत्तिः पुनस्तयोरमुनोपायेनेति प्रदर्शनायाह
कत्थइ पुच्छइ सीसो कहिंचऽपुट्ठा कहंति आयरिया । सीसाणं तु हियट्ठा विपुलतरागं तु पुच्छाए ॥ ३८ ॥ व्याख्या-कचित्किञ्चिदनवगच्छन् पृच्छति शिष्यः कथमेतदिति इयमेव चालना, गुरुकथनं प्रत्यवस्थानम् , इत्थमनयोः प्रवृत्तिः । तथा कचिदपृष्टा एव सन्तः पूर्वपक्षमाशङ्कय किञ्चित्कथयन्त्याचार्याः, तत्प्रत्यवस्थानमिति गम्यते, किमर्थ कथयन्त्यत आह-शिष्याणामेव हितार्थम् , तुशब्द एवकारार्थः, तथा विपुलतरं तु' प्रभूततरं तु कथयन्ति 'पुच्छाए'त्ति शिष्यप्रश्ने सति, पटुप्रज्ञोऽयमित्यवगमादिति गाथार्थः ॥ एवं तावत्समासेन, व्याख्यालक्षणयोजना । कृतेयं प्रस्तुते सूत्रे, कार्यैवमपरेष्वपि ॥१॥ ग्रन्थविस्तरदोषान्न, वक्ष्याम उपयोगि तु । वक्ष्यामः प्रतिसूत्रं तु, यत् सूत्रस्पर्शिकाऽधुना ॥२॥ प्रोच्यतेऽनुगमनियुक्तिविभागश्च विशेषतः।
RSSSSSSSSSSS
Jain Education Inter
For Private & Personel Use Only
Nainelibrary.org