________________
दशवैका ० हारि-वृत्तिः
॥ २० ॥
Jain Education Int
धम्मो मंगलमुक्किहूं, अहिंसा संजमो तवो । देवावि तं नमसंति, जस्स धम्मे सया मणो ॥ १ ॥ व्याख्या - तत्रास्खलितपदोच्चारणं संहिता, सा पाठसिद्वैव । अधुना पदानि धर्मः मङ्गलम् उत्कृष्टम् अहिंसा संयमः तपः देवाः अपि तं नमस्यन्ति यस्य धर्मे सदा मनः । तत्र " धृञ् धारणे" इत्यस्य धातोर्मप्रत्ययान्तस्येदं रूपं धर्म इति । मङ्गलरूपं पूर्ववत् । तथा "कृष विलेखने" इत्यस्य धातोरुत्पूर्वस्य निष्ठान्तस्येदं रूपमुत्कृष्टमिति । तथा " तृहि हिसि हिंसायाम्" इत्यस्य "इदितो नुम् धातोः” (पा० ७-१-५८) इति नुमि | कृते ख्यधिकारे टावन्तस्य नञ्पूर्वस्येदं रूपं यदुताहिंसेति । तथा "यमु उपरमे" इत्यस्य धातोः संपूर्वस्याप्रत्ययान्तस्य संयम इति रूपं भवति । तथा "तप सन्तापे” इत्यस्य धातोरसुन्प्रत्ययान्तस्य तप इति । तथा “दिवु क्रीडाविजिगीषाव्यव हारद्युतिस्तुतिखप्नकान्तिगतिषु" इत्यस्य धातोरच्प्रत्ययान्तस्य जसि देवा इति भवति । अपिशब्दो निपातः । तदित्येतस्य सर्वनाम्नः पुंस्त्वविवक्षायां द्वितीयैकवचनं तमिति भवति । तथा नमसित्यस्य प्रातिपदिकस्य " नमोवरिवश्चित्रङः क्यच्" ( पा० ३-१-१९) इति क्यजन्तस्य लट् क्रियान्ता| देशस्ततश्च नमस्यन्तीति भवति । तथा यदितिसर्वनाम्नः षष्ठ्यन्तस्य यस्येति भवति । धर्मः पूर्ववत् । सदेति सर्वस्मिन् काले “सर्वेकान्यकिंयत्तदः काले दा" ( पा० ५ -३ - १५ ) इति दाप्रत्ययः “सर्वस्य सोऽन्यतरस्यां दि” ( पा० ५-३ - १६ ) इति स आदेशः सदा । तथा "मन ज्ञाने इत्यस्य धातोरसुन्प्रत्ययान्तस्य मन् इति भवति । इति पदानि । साम्प्रतं पदार्थ उच्यते-तत्र दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, तथा चोक्तम्
For Private & Personal Use Only
१ द्रुमपुष्पिका०
अर्थाधि
काराः
॥ २० ॥
ainelibrary.org