________________
भवागरिस फासण निरुत्ती ॥२॥ अस्य च द्वारगाथाद्वयस्य समुदायार्थोऽवयवार्थश्चावश्यकविशेषविवरणादेवावसेय इति । प्रकृतयोजना पुनस्तीर्थकरोपोद्घातमभिधायायसुधर्मस्य च तत्प्रवचनस्य पश्चाजम्बूनाम्नस्ततः प्रभवस्य ततोऽप्यार्यशय्यम्भवस्य पुनर्यथा तेनेदं नियूंढमिति तथा कथनेन कार्या इति । आह च-"जेण व जं च पडुचे"त्यादिना यत्पूर्वमुक्तं तदत्रैव क्रमप्राप्ताभिधानत्वात् तत्रायुक्तमिति, न, अपान्तरालोपोद्घातप्रतिपादकत्वेन तत्राप्युपयोगित्वादिति, आह-एवमपि महासम्बन्धपूर्वकत्वादपान्तरालोपोद्घातस्यात्रैवाभिधानं न्याय्यमिति, न, प्रस्तुतशास्त्रान्तरङ्गत्वेन तत्राप्युपयोगित्वादिति कृतं प्रसङ्गेन, अक्षरगमनिकामात्रफलत्वात्प्रयासस्य। गत उपोद्घातनिर्युक्त्यनुगमः, साम्प्रतं सूत्रस्पर्शिकनियुक्त्यनुगमावसरः, स च सूत्रे सति भवति, आहयद्येवमिहोपन्यासोऽनर्थकः, न, नियुक्तिसामान्यादिति, सूत्रं च सूत्रानुगमे, स चावसरमास एव, इह चास्खलितादिप्रकारं शुद्धं सूत्रमुच्चारणीयम् , तद्यथा-अस्खलितममिलितमव्यत्यानेडितमित्यादि यथाऽनुयोगद्वारेषु, |ततस्तस्मिन्नुच्चरिते सति केषाश्चिद्भगवतां साधूनां केचनार्थाधिकारा अधिगता भवन्ति, केचन वनधिगताः, तत्रानधिगताधिगमायाल्पमतिविनेयानुग्रहाय च प्रतिपदं व्याख्येयम् । व्याख्यालक्षणं चेदम्-संहिता च पदं चैव, पदार्थः पदविग्रहः । चालनाप्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्डिधा ॥१॥ इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः। किं च प्रकृतम्, सूत्रानुगमे सूत्रमुच्चारणीयमिति, तच्चेदं सूत्रम्
१ भव आकर्षाः स्पर्शना निरुक्तिः ॥२॥ २ सृष्ठ धर्मः सुधर्मः आर्यः सुधर्मो यस्येति आर्यसुधर्मस्तस्येति विगृह्य कार्य, धर्मस्य केवलस्योत्तरपदत्वाभावात् लापरमखधर्म इतिवत् न समासान्तप्रसङ्गः, न चैवं समासान्तानित्यत्वकल्पनागौरवमपि.
Jan Education Intel
For Private Personel Use Only