________________
retto
|| सावद्यत्वेन गतार्थ सूत्रमिति, उच्यते, मोक्षपीडाकरं सूक्ष्ममप्यर्थमङ्गीकृत्यान्यतरभाषाभाषणमपि न कर्तव्यमित्यतिशयप्रदर्शनपरमेतददुष्टमेवेति सूत्रार्थः ॥४॥
वितहपि तहामुत्तिं, जं गिरं भासए नरो । तम्हा सो पुटो पावेणं, किं पुणं जो मुसं वए? ॥ ५॥ तम्हा गच्छामो वक्खामो, अमुगं वा णे भविस्सइ । अहं वा णं करिस्सामि, एसो वा णं करिस्सइ ॥ ६॥ एवमाइ उ जा भासा, एसकालंमि संकिआ।
संपयाइअमटे वा, तंपि धीरो विवजए ॥ ७॥ साम्प्रतं मृषाभाषासंरक्षणार्थमाह-वितहपित्ति सूत्रं, 'वितथम्' अतथ्यं 'तथामूर्त्यपि' कथंचित्तत्वरू|पमपि वस्तु, अपिशब्दस्य व्यवहितः संबन्धः, एतदुक्तं भवति-पुरुषनेपथ्यस्थितवनिताद्यप्यङ्गीकृत्य यां गिरं भाषते नरः, इयं स्त्री आगच्छति गायति वेत्यादिरूपां, 'तस्माद्' भाषणादेवंभूतात्पूर्वमेवासौ वक्ता भाषणाभिसंधिकाले 'स्पृष्टः पापेन बद्धः कर्मणा, किं पुनर्यों मृषा वक्ति भूतोपघातिनीं वाचं?, स सुतरां बद्ध्यत इति सूत्रार्थः॥५॥'तम्ह'त्ति सूत्रं, यस्माद्वितथं तथामूर्त्यपि वस्त्वङ्गीकृत्य भाषमाणो बद्ध्यते तस्माद्गमिष्याम एव श्व इतोऽन्यत्र, वक्ष्याम एव श्वस्तत्तदोषधनिमित्तमिति, अमुकं वा नः कार्य वसत्यादि भविष्यत्येव, अहं चेदं लोचादि करिष्यामि नियमेन, एष वा साधुरस्माकं विश्रामणादि करिष्यत्येवेति सूत्रार्थः ॥६॥ एव
Rontok
Jan Education inte
For Private Personal use only
Mainelibrary.org