________________
, दशबैका
त्यासत्यामुषे न वमङ्गीकृत्य आपका जाता इत्या आमश्रण्यासद्धिमान स
हारि-वृत्तिः
॥२१३॥
रूपम्
'शिक्षेत' जानीयात्, 'द्वे' असत्यासत्यामृषे न भाषेत 'सर्वशः सर्वैः प्रकारैरिति सूत्रार्थः॥१॥ विनयमेवाह ७ वाक्य
-'जा अ सच'त्ति सूत्रं, या च सत्या पदार्थतत्वमङ्गीकृत्य 'अवक्तव्या' अनुच्चारणीया सावद्यत्वेन, अमुत्र शुख्य स्थिता पल्लीति कौशिकभाषावत्, सत्यामृषा वा यथा दश दारका जाता इत्यादिलक्षणा, मृषा च संपूर्णैव, भाषास्वचशब्दस्य व्यवहितः संबन्धः, या च 'बुद्वैः' तीर्थकरगणधरैरनाचरिता असत्यामृषा आमन्त्रण्याज्ञापन्यादिलक्षणा अविधिपूर्वकं खरादिना प्रकारेण, 'नैना भाषेत' नेत्थंभूतां वाचं समुदाहरेत् 'प्रज्ञावान्' बुद्धिमान् सा-3/२ उद्देशः |धुरिति सूत्रार्थः॥२॥ यथाभूताऽवाच्या भाषा तथाभूतोक्ता, साम्प्रतं यथाभूता वाच्या तथाभूतामाह'असच्चमोसं'ति सूत्रम्, 'असत्यामृषाम् उक्तलक्षणां 'सत्यां च' उक्तलक्षणामेव, इयं च सावद्यापि कर्कशापि भवत्यत आह–'असावद्याम्' अपापाम् 'अकर्कशाम्' अतिशयोक्त्या ह्यमत्सरपूर्वी 'संप्रेक्ष्य खपरो|पकारिणीति बुद्ध्याऽऽलोच्य 'असंदिग्धा स्पष्टामक्षेपेण प्रतिपत्तिहेतुं 'गिरं वाचं 'भाषेत' ब्रूयात् 'प्रज्ञावान्' बुद्धिमान साधुरिति सूत्रार्थः॥ ३ ॥ साम्प्रतं सत्यासत्यामृषाप्रतिषेधार्थमाह-एअं चत्ति सूत्रम्, 'एतं चार्थम्' अनन्तरप्रतिषिद्धं सावद्यकर्कशविषयम् 'अन्यं वा' एवंजातीयं, प्राकृतशैल्या 'यस्तु नामयति शाश्वतं' य एव कश्चिदर्थो नामयति-अननुगुणं करोति शाश्वतं-मोक्षं तमाश्रित्य 'स' साधुः पूर्वोक्तभाषाभा|षकत्वेनाधिकृतो भाषां 'सत्यामृषामपि' पूर्वोक्ताम्, अपिशब्दात्सत्यापि या तथाभूता तामपि 'धीरों' बुद्धि- ॥२१३॥ मान् 'विवर्जयेत् न ब्रूयादिति भावः । आह-सत्यामृषाभाषाया ओघत एव प्रतिषेधात्तथाविधसत्यायाश्च
ACADEMONOCIENCE
Jain Education Inteta
For Private Personal Use Only