________________
दसौ तद्भावशुद्धिः, आदेशे मिश्रा भवति शुद्धिस्तदन्यानन्यविषयेत्यर्थः, एतदुक्तं भवति-आदेशभावशुद्धि-! विविधा-अन्यत्वेऽनन्यत्वे च, अन्यत्वे यथा शुद्धभावस्य साधोर्गुरुः अनन्यत्वे शुद्धभाव इति गाथार्थः॥ प्रधानभावशुद्धिमाह
दसणनाणचरित्ते तवोविसुद्धी पहाणमाएसो । जम्हा उ विसुद्धमलो तेण विसुद्धो हवइ सुद्धो ॥ २८७ ॥ व्याख्या-'दर्शनज्ञानचारित्रेषु' दर्शनज्ञानचारित्रविषया तथा तपोविशुद्धिः 'प्राधान्यादेश' इति यदर्शनादीनामादिश्यमानानां प्रधानं सा प्रधानभावशुद्धिः, यथा दर्शनादिषु क्षायिकाणि ज्ञानदर्शनचारित्राणि, तपःप्रधानभावशुद्धिः-आन्तरतपोऽनुष्ठानाराधनमिति। कथं पुनरियं प्रधानभावशुद्धिरिति?, उच्यते, एभिर्दर्शनादिभिः शुद्धेर्यस्माद्विशुद्धमलो भवति साधुः, कर्ममलरहित इत्यर्थः, तेन च मलेन 'विशुद्धों' मुक्तो भवति सिद्ध इत्यतः प्रधानभावशुद्धिर्यथोक्तान्येव दर्शनादीनीति गाथार्थः ॥ उक्ता शुद्धिः, इह च भावशुद्ध्याधिकारः, सा च वाक्यशुद्धर्भवतीत्याह
जं वकं वयमाणस्स संजमो सुज्झई न पुण हिंसा । न य अत्तकलुसभावो तेण इहं वक्सुद्धित्ति ॥ २८८ ॥ _ व्याख्या-'यदू' यस्माद्वाक्यं शुद्धं वदतः सतः संयमः शुद्ध्यति, शुद्ध्यतीति निर्मल उपजायते, न पुनहिंसा भवति कौशिकादेरिव, न चात्मनः कलुषभावः कालुष्यं-दुष्टाभिसंधिरूपं संजायते, तेन कारणेन 'इह' प्रवचने वाक्यशुद्धिर्भावशुद्धेनिमित्तमित्यतोऽत्र प्रयतितव्यमिति गाथार्थः। ततश्चैतदेव कर्तव्यमित्याह
CAMGARAARRANGARCANCHES
Jan Education in
For Private
Personal Use Only
Alainelibrary.org