________________
शवैका० हारि-वृत्तिः
ROCESRA
७ वाक्यशुद्ध्य भाषास्व. रूपम् २ उद्देश:
॥२११॥
भवति शुद्धिरन्यान
गुण्णा साधः ॥ प्राधान्यद्रव्यशासनानन्यत्वेन च,
EXCARENCE
व्याख्या-त्रिविधा तु द्रव्यशुद्धिर्भवति तद्रव्यत' इति तद्रव्यशुद्धिः 'आदेशत' इति आदेशद्रव्यशुद्धिः 'प्राधान्यतश्चेति प्राधान्यद्रव्यशुद्धिश्च । तत्र तद्रव्यशुद्धिः 'अनन्ये'त्यनन्यद्रव्यशुद्धिः, यद्रव्यमन्येन द्रव्येण सहासंयुक्तं सच्छुद्धं भवति क्षीरं दधि वा असौ तद्र्व्यशुद्धिः, आदेशे मिश्रा भवति शुद्धिरन्यानन्यविषया, एतदुक्तं भवति-आदेशतो द्रव्यशुद्धिर्द्विविधा-अन्यत्वेनानन्यत्वेन च, अन्यत्वे यथा शुद्धवासा देवदत्तः, अनन्यत्वे शुद्धदन्त इति गाथार्थः ॥ प्राधान्यद्रव्यशुद्धिमाह
वण्णरसगंधफासे समणुण्णा सा पहाणओ सुद्धी । तत्थ उ सुकिल महुरा उ संमया चेव उक्कोसा ॥ २८५ ॥ व्याख्या-वर्णरसगन्धस्पर्शेषु या मनोज्ञता-सामान्येन कमनीयता अथवा मनोज्ञता-यथाभिप्रायमनुकूलता सा प्राधान्यतः शुद्धिरुच्यते, "तत्र' चैवंभूतचिन्ताव्यतिकरे शुक्लमधुरौ वर्णरसौ तुशब्दात्सुरभिमृदू गन्धस्पशौं च संमतौ, यथाभिप्रायमपि प्रायो मनोज्ञौ, बहूनामित्थंप्रवृत्तिसिद्धेः, 'उत्कृष्टौ च' कमनीयौ च । चशब्दस्य व्यवहित उपन्यास इति गाथार्थः ।। उक्ता द्रव्यशुद्धिः, अधुना भावशुद्धिमाह
एमेव भावसुद्धी तब्भावाएसओ पहाणे अ । तब्भावगमाएसो अणण्णमीसा हवइ सुद्धी ॥ २८६॥ __ व्याख्या-'एवमेवेति यथा द्रव्यशुद्धिस्तथा भावशुद्धिरपि, त्रिविधेत्यर्थः, 'तद्भाव' इति तद्भावशुद्धिः 'आदेशत' इति आदेशभावशुद्धिः 'प्राधान्यतश्चेति प्राधान्यभावशुद्धिश्च, तत्र तद्भावशुद्धिः 'अनन्ये'त्यनन्यभावशुद्धिस्तद्भावशुद्धिः, यो भावोऽन्येन भावेन सहासंयुक्तः सन् शुद्धो भवति बुभुक्षितादेरन्नाद्यभिलाषव
RECOGICALCRICCCCCC
॥२११॥
Jain Education International
For Private & Personal Use Only
ainelibrary.org