________________
FRE5
454543ऊब
हवइ उ असच्चमोसा सुअंमि उवरिल्लए तिनाणंमि । जं उवउत्तो भासइ एत्तो वोच्छं चरित्तमि ॥ २८१ ॥ व्याख्या-भवति तु असत्यामृषा 'श्रुते' आगम एव परावर्तनादि कुर्वतस्तस्यामन्त्रण्यादिभाषारूपत्वात्तथा 'उपरितने' अवधिमनःपर्यायकेवललक्षणे 'त्रिज्ञान' इति ज्ञानत्रये यदुपयुक्तो भाषते सा असत्यामृषा, आमनण्यादिवत् तथाविधाध्यवसायप्रवृत्तेः, इत्युक्ता श्रुतभावभाषा । अत ऊर्द्ध वक्ष्ये 'चारित्र' इति चारित्रविषयां भावभाषामिति गाथार्थः॥
पढमबिइआ चरित्ते भासा दो चेव होंति नायव्वा । सचरित्तस्स उ भासा सच्चा मोसा उ इअरस्स ॥ २८२ ॥ व्याख्या-प्रथमद्वितीये' सत्यामृषे 'चारित्र' इति चारित्रविषये भाषे द्वे एव भवतो ज्ञातव्ये, खरूपमाह -सचरित्रस्य' चारित्रपरिणामवतः, तुशब्दात्तवृद्धिनिबन्धनभूता च भाषा द्रव्यतस्तथाऽन्यथाभावेऽपि सत्या, सतां हितत्त्वादिति । मृषा तु 'इतरस्य' अचारित्रस्य तद्वृद्धिनिवन्धनभूता चेति गाथार्थः ॥ उक्तं वाक्यमधुना शुद्धिमाह
णामंठवणासुद्धी दुव्वसुद्धी अ भावसुद्धी अ । एएसिं पत्तेअं परूवणा होइ कायव्वा ॥ २८३ ॥ व्याख्या-नामशुद्धिः स्थापनाशुद्धिद्रव्यशुद्धिश्च भावशुद्धिश्च, 'एतेषां' नामशुद्ध्यादीनां प्रत्येकं प्ररूपणा भवति कर्तव्येति गाथार्थः॥ तत्र नामस्थापने क्षुण्णत्वादनङ्गीकृत्य द्रव्यशुद्धिमाह
तिविहा उ व्वसुद्धी तद्दब्बादेसओ पहाणे अ । तद्दव्वगमाएसो अणण्णमीसा हवइ सुद्धी ॥ २८४ ॥
*SHAISANS
दश०३६
Jain Education Inter
For Private & Personel Use Only
SRMjainelibrary.org