________________
दशवैका हारि-वृत्तिः
॥२१
॥
*SHAHARASHTRA
सव्वावि अ सा दुविहा पजत्ता खलु तहा अपजत्ता । पढमा दो पजत्ता उवरिल्ला दो अपज्जत्ता ॥ २७८ ॥
७वाक्यव्याख्या-सर्वाऽपि च 'सा' सत्यादिभेदभिन्ना भाषा द्विविधा-पर्याप्सा खलु तथाऽपर्याप्ता, पर्याप्ता या एकपक्षे शुख्य निक्षिप्यते सत्या वा मृषा वेति तद्व्यवहारसाधनी, तद्विपरीता पुनरपर्याप्ता, अत एवाह-प्रथमे द्वे भाषे सत्या- भाषास्वमृषे पर्याप्से, तथाखविषयव्यवहारसाधनात्, तथा उपरितने द्वे सत्यामृषाऽसत्यामृषाभाषे अपर्यासे, तथाख-18
रूपम् विषयव्यवहारासाधनादिति गाथार्थः ॥ उक्ता द्रव्यभावभाषा, साम्प्रतं श्रुतभावभाषामाह
२ उद्देश: सुअधम्मे पुण तिविहा सच्चा मोसा असच्चमोसा अ । सम्मद्दिट्ठी उ सुओवउत्तु सो भासई सञ्चं ॥ २७९ ॥ व्याख्या-'श्रुतधर्म' इति श्रुतधर्मविषया पुनस्त्रिविधा भवति भावभाषा, तद्यथा-सत्या मृषा असत्यामृषा चेति, तत्र 'सम्यग्दृष्टिस्तु' सम्यग्दृष्टिरेव 'श्रुतोपयुक्त' इत्यागमे यथावदुपयुक्तो यः स भाषते 'सत्यम्' आगमानुसारेण वक्तीति गाथार्थः॥
सम्मट्टिी उ सुअंमि अणुवउत्तो अहेउगं चेव । जं भासइ सा मोसा मिच्छादिट्ठीवि अ तहेव ॥ २८॥ व्याख्या-'सम्मद्दिट्टी' सम्यगदृष्टिरेव सामान्येन 'श्रुतें आगमे अनुपयुक्तः प्रमादायत्किंचिद् 'अहेतुकं चैव' युक्तिविकलं चैव यद्भाषते तन्तुभ्यः पट एव भवतीत्येवमादि सा मृषा, विज्ञानादेरपि तत एव भावादिति । मिथ्यादृष्टिरपि तथैवे'त्युपयुक्तोऽनुपयुक्तो वा यद्भाषते सा मृषैव, घुणाक्षरन्याय(यात्)संवादेऽपि ॥२१ ॥ सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवदिति गाथार्थः॥
Jain Education inand
For Private Personal Use Only