SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter तद्विषया सत्यामृषा यथा कस्मिंश्चित् प्रयोजने त्वरयन् प्रहरमात्र एव मध्याह इत्याह । एवं मिश्रशब्दः प्रत्येकमभिसंबध्यत इति गाथार्थः । उक्ता सत्यामृषा, साम्प्रतमसत्यामृषामाह आमंतणि आणवणी जायणि तह पुच्छणी अ पन्नवणी । पञ्चक्खाणी भासा भासा इच्छानुलोमा अ ॥ २७६ ॥ व्याख्या - आमन्त्रणी यथा हे देवदत्त इत्यादि, एषा किलाप्रवर्तकत्वात्सत्यादिभाषात्रयलक्षणवियोगतस्तथाविधदलोत्पत्तेरसत्यामृषेति, एवमाज्ञापनी यथेदं कुरु, इयमपि तस्य करणाकरणभावतः परमार्थेनैकत्राप्यनियमात्तथाप्रतीतेः अदुष्टविवक्षाप्रसूतत्वादसत्यामृषेति, एवं खबुद्ध्याऽन्यत्रापि भावना कार्येति । याचनी यथा भिक्षां प्रयच्छेति, तथा प्रच्छनी यथा कथमेतदिति, प्रज्ञापनी यथा हिंसाप्रवृत्तो दुःखितादिर्भवति, प्र त्याख्यानी भाषा यथाऽदित्सेति भाषा, इच्छानुलोमा च यथा केनचित्कञ्चिदुक्तः साधुसकाशं गच्छाम इति, स आह-शोभनमिदमिति गाथार्थः ॥ अभिग्गहि भासा भासा अ अभिग्गहंमि बोद्धव्वा । संसयकरणी भासा वायड अव्वायडा चेव ॥ २७७ ॥ व्याख्या - अनभिगृहीता भाषा अर्थमनभिगृह्य योच्यते डित्थादिवत्, भाषा चाभिग्रहे बोद्धव्या-अर्थम भिगृह्य योच्यते घटादिवत्, तथा संशयकरणी च भाषा-अनेकार्थसाधारणा योच्यते सैन्धवमित्यादिवत्, व्याकृता-स्पष्टा प्रकटार्था देवदत्तस्यैष भ्रातेत्यादिवत्, अव्याकृता चैव- अस्पष्टाऽप्रकटार्था बालकादीनां थपनिकेत्यादिवदिति गाथार्थः ॥ उक्ता असत्यामृषा, साम्प्रतमोघत एवास्याः प्रविभागमाह For Private & Personal Use Only ainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy